भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

गिरि-गह्वर-नदी-तटाकादि-मनोहारिण्या प्रकृत्या सह अनितरसाधारणसौन्दर्येण भ्राजमानायाः वसुन्धरायाः रत्नगर्भायाः तिलकायमानो विराजते अयमस्माकं भारतवर्षः । अनेके महर्षयः महात्मानः दार्शनिकधौरेयाश्च अत्र भवायाः अन्यादृश्याः सनातनसंस्कृतेः प्रसरणाय अस्यां पुण्यभूमौ जन्म लब्ध्वा एनां पवित्रीकृतवन्तः । इत्थंमहाभागोऽयं भारतवर्षः सर्वेषां प्राणिनां अभ्युदयनिःश्रेयसहेतुत्वेन अभियुक्तैरनुमन्यमानानाम् उपनिषदादि-साहित्यप्रकाराणाम् आगरः। ज्ञानसागरः । अपौरुषेयाणां वेदराशीणां शिरःस्थानमलङ्कृत्य सारभूताः प्रमाणभूताश्चेति अभियुक्तैः स्वीकृताः इमे साहित्यप्रकाराः वेदान्ताः इति नाम्ना लोके प्रसिद्धाः । यद्यपि देवभाषायां निबद्धाः एते सर्वे न सर्वैरपि सुलभग्राह्याः । तथापि सर्वेऽपि जिज्ञासवः मुमुक्षवश्च एतदौपनिषदं तत्त्वं याथार्थ्येन ज्ञात्वा कृतकृत्या भवेयुः इति कामयमानो वेदव्यासो भगवान् सकलवेदार्थसारसङ्ग्रहभूतं भगवद्गीताख्यं शास्त्रं सप्तभिः श्लोकशतैः उपनिबबन्ध । अपि च उपनिषत्सु भगवद्गीतासु च उपदिष्टमेव ज्ञानम् संक्षेपतरत्वेन निःसन्दिग्धतया उपदिदिक्षुः स एव भगवान् वेदव्यासो बादरायणाख्यः एतच्छास्त्रं सूत्ररूपेण रचयामास । अयमेव सूत्रग्रन्थः ब्रह्मसूत्राणि, शारीरकमीमाम्सा, वेदान्तशास्त्रम्, बादरायणीय-वेदान्तसूत्राणि, वैयासिकसूत्राणि, उत्तारमीमाम्सादर्शनम्, चतुर्लक्षणी इति पर्यायाभिधानैः लोके भ्राजमानो विराजते । अल्पाक्षरयुतेन सूत्ररूपेण रचितत्वात् एतेषां वेदान्तसूत्राणां यथावदवगमः कष्टसाध्य एव । अतः श्रीमच्छङ्करभगवत्पूज्यपादाः आचार्याः परमेश्वराम्शेन भुवि अवतीर्य दुरवगाह्यम् इमं सूत्रराशिं पञ्चपञाशदुत्तरपञ्चशतैः (555) सूत्रैः विभज्य मुमुक्षुजनपरित्राणाय तेषां वेदान्तसूत्राणां प्रसन्नगम्भीरं भाष्यम् अनुग्राहयामासुः । ब्रह्मनिष्ठस्य श्रोत्रियस्य च गुरोर्मुखारविन्दात् सम्प्रदायक्रमेणैव अध्येतव्यमिदं शारीरकमीमाम्साभाष्यम् । यद्यपि अस्मिन् यान्त्रिकयुगे एतादृशम् अध्ययनं नैव सुलभसाध्यम् तथापि पदेषु सम्यग् विभज्य पठितेषु अर्थावबोधो भवेत् । हन्त ! अधुना अस्यापि अवकाशो न्यूनो दृश्यते । अयं क्रमः यदा श्रवणमाध्यमे लभ्यते तदा यस्मिन् कस्मिंश्च समये यत्रकुत्रापि च वर्तमानाः महाजनाः लौकिकाश्च श्रवणमात्रेणापि केवलेन प्रयोजनं प्राप्नुयुः इत्याशयात् बेंगलूरु नगरस्थया कृष्णकमल वेदान्तपाठशालया निर्मितं mobile application इत्येकं सुलभसाधनम् भाष्यपीयूषधारा इत्यनेन मङ्गलाभिधानेन भवदग्रे समर्पितमस्ति । अस्मिन् साधने सप्तानाम् प्रधानानां उपनिषदां मन्त्राः, तेषां शाङ्करभाष्यभागाः, समस्तवेदान्तसूत्राणि, वेदान्तशास्त्रेषु अधिकरणपञ्चकस्य शाङ्करभाष्यभागाश्च, एते सर्वे देवनागर्यां सूक्तक्रमेण विभक्तैः पदैः उपनिबद्धाः सन्ति । अस्मिन् साधने सर्वाण्येतानि दृश्यमाध्यमेन श्रवणमाध्यमेन च लभ्यानि भवन्ति इति अन्यद्वैशिष्ट्यमेतत् । आगच्छन्तु भोः जिज्ञासवः! भाष्यपीयूषम् आस्वादयन्तु । सादरं सुस्वागतम् सुस्वागतम् ॥

© 2023 KKP APP. All rights reserved | Design by SMDS