अथर्ववेदीया प्रश्नोपनिषद्
या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि ।
या च मनसि सन्तता शिवां तां कुरु मोत्क्रमीः ॥१२॥
किं बहुना ? या ते त्वदीया तनूः वाचि प्रतिष्ठिता वक्तृत्वेन वदनचेष्टां कुर्वती, या च श्रोत्रे या चक्षुषि या च मनसि सङ्कल्पादिव्यापारेण सन्तता समनुगता तनूः, तां शिवां शान्तां कुरु ; मा उत्क्रमीः उत्क्रमणेन अशिवां मा कार्षीः इत्यर्थः ॥१२॥