भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया प्रश्नोपनिषद्

यथा सम्राडेव अधिकृतान्विनियुङ्क्त एतान्ग्रामानेतान्ग्रामान्
अधितिष्ठस्वेति एवमेवैष प्राण इतरान्प्राणान्पृथक्पृथगेव संनिधत्ते ॥ ४ ॥

यथा येन प्रकारेण लोके राजा सम्राडेव ग्रामादिष्वधिकृतान्विनियुङ्क्ते । कथम् ? एतान्ग्रामानेतान्ग्रामानधितिष्ठस्व इति । एवमेव यथायं दृष्टान्तः । एषः मुख्यः प्राणः इतरान् प्राणान् चक्षुरादीन् आत्मभेदांश्च पृथक्पृथगेव यथास्थानं संनिधत्ते विनियुङ्क्ते ॥४॥

© 2023 KKP APP. All rights reserved | Design by SMDS