अथर्ववेदीया प्रश्नोपनिषद्
यः पुनः एतं त्रिमात्रेण ओमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नः । यथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात् परात्परं पुरिशयं पुरुषमीक्षते । तदेतौ श्लोकौ भवतः ॥५॥
यः पुनः एतम् ओङ्कारं त्रिमात्रेण त्रिमात्राविषयविज्ञानविशिष्टेन ओमित्येतेनैव अक्षरेण परं सूर्यान्तर्गतं पुरुषं प्रतीकत्वेन अभिध्यायीत तेन अभिध्यानेन प्रतीकत्वेन हि आलम्बनत्वं प्रकृतम् ओङ्कारस्य परं च अपरं च ब्रह्मेति अभेदश्रुतेः, ओङ्कारमिति च द्वितीया अनेकशः श्रुता बाध्येत अन्यथा । यद्यपि तृतीयाभिधानत्वेन करणत्वमुपपद्यते, तथापि प्रकृत-अनुरोधात् ’त्रिमात्रं परं पुरुषम्’ इति द्वितीयैव परिणेया ‘त्यजेदेकं कुलस्यार्थे’ इति न्यायेन । सः तृतीयमात्रारूपे तेजसि सूर्ये सम्पन्नो भवति ध्यायमानः, मृतोऽपि सूर्यात् सोमलोकादिवत् न पुनरावर्तते ; किन्तु सूर्ये सम्पन्नमात्र एव । यथा पादोदरः सर्पः त्वचा विनिर्मुच्यते जीर्ण-त्वग्विनिर्मुक्तः स पुनः नवो भवति । एवं ह वै एष यथा दृष्टान्तः स पाप्मना सर्पत्वक्स्थानीयेन अशुद्धिरूपेण विनिर्मुक्तः सः सामभिः तृतीयमात्रारूपैः ऊर्ध्वमुन्नीयते ब्रह्मलोकं हिरण्यगर्भस्य ब्रह्मणो लोकं सत्याख्यम् । सः हिरण्यगर्भः सर्वेषां संसारिणां जीवानामात्मभूतः । स हि अन्तरात्मा लिङ्गरूपेण सर्वभूतानाम् । तस्मिन् हि लिङ्गात्मनि संहताः सर्वे जीवाः । तस्मात् स जीवघनः स विद्वान् त्रिमात्र-ओङ्काराभिज्ञः एतस्माज्जीवघनात् हिरण्यगर्भात् परात्परं परमात्माख्यं पुरुषमीक्षते पुरिशयं सर्वशरीरानुप्रविष्टं पश्यति ध्यायमानः । तत् एतौ अस्मिन् यथोक्तार्थप्रकाशकौ श्लोकौ मन्त्रौ भवतः ॥५॥
© 2023 KKP APP. All rights reserved | Design by SMDS