भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया प्रश्नोपनिषद्

य एवंविद्वान्प्राणं वेद न हास्य प्रजा हीयतेऽमृतो भवति तदेष श्लोकः ॥११॥

यः कश्चित् एवं विद्वान् यथोक्तविशेषणैः विशिष्टम् उत्पत्त्यादिभिः प्राणं वेद जानाति तस्य इदं फलम् ऐहिकम् आमुष्मिकं च उच्यते । न ह अस्य नैव अस्य विदुषः प्रजाः पुत्रपौत्रादिलक्षणा हीयते च्छिद्यते । पतिते च शरीरे प्राणसायुज्यतया अमृतः अमरणधर्मा भवति ; तत् एतस्मिन् अर्थे सङ्क्षेपाभिधायक एष श्लोकः मन्त्रो भवति ॥११॥

© 2023 KKP APP. All rights reserved | Design by SMDS