भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया प्रश्नोपनिषद्

यदुच्छ्वासनिःश्वासावेतावाहुती समं नयतीति स समानः ।
मनो ह वाव यजमानः इष्टफलमेवोदानः
स एनं यजमानमहरहर्ब्रह्म गमयति ॥४॥

अत्र च होता अग्निहोत्रस्य यत् यस्मात् उच्छ्वासनिःश्वासौ अग्निहोत्राहुती इव नित्यं द्वित्वसामान्यादेव तु एतौ आहुती समं साम्येन शरीरस्थितिभावाय नयति यो वायुरग्निस्थानीयोऽपि होता च आहुत्योः नेतृत्वात् । कोऽसौ ? स समानः । अतश्च विदुषः स्वापोऽपि अग्निहोत्रहवनमेव । तस्मात् विद्वान् न अकर्मी इत्येवं मन्तव्य इत्यभिप्रायः । सर्वदा सर्वाणि च भूतानि विचिन्वन्त्यपि स्वपत इति हि वाजसनेयके । अत्र हि जाग्रत्सु प्राणाग्निषु उपसंहृत्य बाह्यकरणानि विषयांश्च अग्निहोत्रफलमिव स्वर्गं ब्रह्म जिगमिषुः मनो ह वाव यजमानः जागर्ति । यजमानवत् कार्यकरणेषु प्राधान्येन संव्यवहारात् स्वर्गमिव ब्रह्म प्रति प्रस्थितत्वात् यजमानो मनः कल्प्यते । इष्टफलं यागफलमेव उदानः वायुः । उदाननिमित्तत्वात् इष्टफलप्राप्तेः । कथम् ? सः उदानः एनं मनआख्यं यजमानं स्वप्नवृत्तिरूपादपि प्रच्याव्य अहरहः सुषुप्तिकाले स्वर्गमिव ब्रह्म अक्षरं गमयति । अतो यागफलस्थानीयः उदानः ॥४॥

© 2023 KKP APP. All rights reserved | Design by SMDS