अथर्ववेदीया प्रश्नोपनिषद्
यदा त्वमभिवर्षसि अथेमाः प्राण ते प्रजाः ।
आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ॥१०॥
यदा पर्जन्यो भूत्वा अभिवर्षसि त्वम् , अथ तदा अन्नं प्राप्य इमाः प्रजाः प्राणते प्राणचेष्टां कुर्वन्तीत्यर्थः । अथवा, हे प्राण, ते तव इमाः प्रजाः स्वात्मभूताः त्वदन्नसंवर्धिताः त्वदभिवर्षणदर्शनमात्रेण च आनन्दरूपाः सुखं प्राप्ता इव सत्यः तिष्ठन्ति । कामाय इच्छातः अन्नं भविष्यति इत्येवमभिप्रायः ॥११॥