भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया प्रश्नोपनिषद्

यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः ।
सहात्मना यथासङ्कल्पितं लोकं नयति ॥१०॥

मरणकाले यच्चित्तो भवति तेन एषः जीवः चित्तेन सङ्कल्पेन इन्द्रियैः सह प्राणं मुख्यप्राणवृत्तिम् आयाति । मरणकाले क्षीणेन्द्रियवृत्तिः सन्मुख्यया प्राणवृत्त्या एव अवतिष्ठत इत्यर्थः । तदा हि वदन्ति ज्ञातयः, उच्छ्वसिति जीवतीति । स च प्राणः तेजसा उदानवृत्त्या युक्तः सन् सहात्मना स्वामिना भोक्ता स एवम् उदान उदानवृत्त्यैव युक्तः प्राणः तं भोक्तारं पुण्यपापकर्मवशात् यथासङ्कल्पितं यथा अभिप्रेतं लोकं नयति प्रापयति ॥१०॥

© 2023 KKP APP. All rights reserved | Design by SMDS