भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया प्रश्नोपनिषद्

विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् ।
सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ ८ ॥

विश्वरूपं सर्वरूपं हरिणं रश्मिवन्तं जातवेदसं जातप्रज्ञानं परायणं सर्वप्राणाश्रयं ज्योतिः सर्वप्राणिनां चक्षुर्भूतम् एकम् अद्वितीयं तपन्तं तापक्रियां कुर्वाणं स्वात्मानं सूर्यं विज्ञातवन्तो ब्रह्मविदः । कोऽसौ यं विज्ञातवन्तः ? सहस्ररश्मिः अनेकरश्मिः शतधा अनेकधा प्राणिभेदेन वर्तमानः प्राणः प्रजानाम् उदयति एषः सूर्यः ॥८॥

© 2023 KKP APP. All rights reserved | Design by SMDS