भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया प्रश्नोपनिषद्

विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र ।
तदक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेशेति ॥११॥

विज्ञानात्मा, सह देवैश्च अग्न्यादिभिः प्राणाः चक्षुरादयः भूतानि पृथिव्यादीनि सम्प्रतिष्ठन्ति प्रविशन्ति यत्र यस्मिन्नक्षरे, तत् अक्षरं वेदयते यस्तु हे सोम्य प्रियदर्शन, स सर्वज्ञः सर्वमेव आविवेश आविशतीत्यर्थः ॥

इति प्रश्नोपनिषद्भाष्ये चतुर्थः प्रश्नः

© 2023 KKP APP. All rights reserved | Design by SMDS