भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया प्रश्नोपनिषद्

व्रात्यस्त्वं प्राणैकर्षिरत्ता विश्वस्य सत्पतिः ।
वयमाद्यस्य दातारः पिता त्वं मातरिश्व नः ॥११॥

किञ्च, प्रथमजत्वात् अन्यस्य संस्कर्तुरभावात् असंस्कृतो व्रात्यः त्वम् , स्वभावत एव शुद्ध इत्यभिप्रायः । हे प्राण, एकर्षिः त्वम् आथर्वणानां प्रसिद्ध एकर्षिनामा अग्निः सन् अत्ता सर्वहविषाम् । त्वमेव विश्वस्य सर्वस्य सतो विद्यमानस्य पतिः सत्पतिः ; साधुर्वा पतिः सत्पतिः । वयं पुनः आद्यस्य तव अदनीयस्य हविषो दातारः । त्वं पिता मातरिश्व हे मातरिश्वन् , नः अस्माकम् अथवा, मातरिश्वनः वायोः पिता त्वम् । अतश्च सर्वस्यैव जगतः पितृत्वं सिद्धम् ॥११॥

© 2023 KKP APP. All rights reserved | Design by SMDS