अथर्ववेदीया प्रश्नोपनिषद्
उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा ।
अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति ॥ १२ ॥
उत्पत्तिं परमात्मनः प्राणस्य आयतिम् आगमनं मनोकृतेन अस्मिञ्शरीरे स्थानं स्थितिं च पायूपस्थादिस्थानेषु विभुत्वं च स्वाम्यमेव सम्राडिव प्राणवृत्तिभेदानां पञ्चधा स्थापनम् । बाह्यम् आदित्यादिरूपेण अध्यात्मं चैव चक्षुराद्याकारेण अवस्थानं विज्ञाय एवं प्राणम् अमृतमश्नुते इति । विज्ञायामृतमश्नुत इति द्विर्वचनं प्रश्नार्थपरिसमाप्त्यर्थम् ॥
इति प्रश्नोपनिषद्भाष्ये तृतीयः प्रश्नः