अथर्ववेदीया प्रश्नोपनिषद्
तेजो ह वाव उदानः तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैः मनसि सम्पद्यमानैः ॥९॥
यद्बाह्यं ह वाव प्रसिद्धं सामान्यं तेजः तच्छरीरे उदानः उदानं वायुमनुगृह्णाति स्वेन प्रकाशेन इत्यभिप्रायः । यस्मात् तेजःस्वभावो बाह्यतेजोनुगृहीत उत्क्रान्तिकर्ता तस्मात् यदा लौकिकः पुरुषः उपशान्ततेजाः भवति, उपशान्तं स्वाभाविकं तेजो यस्य सः । तदा तं क्षीणायुषं मुमूर्षुं विद्यात् । सः पुनः भवं शरीरान्तरं प्रतिपद्यते । कथम् ? सह इन्द्रियैः मनसि सम्पद्यमानैः प्रविशद्भिः वागादिभिः ॥९॥