भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया प्रश्नोपनिषद्

तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति ॥१६॥

यस्तु पुनः आदित्योपलक्षित उत्तरायणः प्राणात्मभावो विरजः शुद्धो न चन्द्रब्रह्मलोकवद्रजस्वलो वृद्धिक्षयादियुक्तः असौ तेषाम् , केषामिति, उच्यते — यथा गृहस्थानाम् अनेकविरुद्धसंव्यवहारप्रयोजनवत्त्वात् जिह्मं कौटिल्यं वक्रभावः अवश्यम्भावि तथा न येषु जिह्मम् , यथा च गृहस्थानां क्रीडादिनिमित्तम् अनृतम् अवर्जनीयं तथा न येषु तत् तथा माया गृहस्थानामिव न येषु विद्यते । माया नाम बहिः अन्यथा आत्मानं प्रकाश्य, अन्यथा एव कार्यं करोति, सा माया मिथ्याचाररूपा । माया इत्येवमादयो दोषा येषु एकाकिषु ब्रह्मचारि-वानप्रस्थ-भिक्षुषु निमित्ताभावात् न विद्यन्ते, तत्साधनानुरूप्येणैव तेषामसौ विरजो ब्रह्मलोक इत्येषा ज्ञानयुक्तकर्मवतां गतिः । पूर्वोक्तस्तु ब्रह्मलोकः केवलकर्मिणां चन्द्रलक्षण इति ॥१६॥

इति प्रश्नोपनिषद्भाष्ये प्रथमः प्रश्नः

© 2023 KKP APP. All rights reserved | Design by SMDS