अथर्ववेदीया प्रश्नोपनिषद्
तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता
अन्योन्यसक्ता अनविप्रयुक्ताः ।
क्रियासु बाह्याभ्यन्तरमध्यमासु
सम्यक्प्रयुक्तासु न कम्पते ज्ञः ॥६॥
तिस्रः त्रिसङ्ख्याका अकार-उकार-मकाराख्याः ओङ्कारस्य मात्राः । मृत्युमत्यः मृत्युर्यासां विद्यते ता मृत्युमत्यः मृत्युगोचरात् अनतिक्रान्ताः मृत्युगोचरा एव इत्यर्थः । ता आत्मनो ध्यानक्रियासु प्रयुक्ताः । किञ्च, अन्योन्यसक्ताः इतरेतरसम्बद्धाः । अनविप्रयुक्ताः विशेषेण एकैकविषये एव प्रयुक्ता विप्रयुक्ताः, न तथा विप्रयुक्ता अविप्रयुक्ताः, न अविप्रयुक्ता अनविप्रयुक्ताः । किं तर्हि, विशेषेण एकस्मिन् ध्यानकाले तिसृषु क्रियासु बाह्याभ्यन्तरमध्यमासु जाग्रत्स्वप्नसुषुप्तस्थान-पुरुषाभिध्यानलक्षणासु योगक्रियासु युक्तासु सम्यक्प्रयुक्तासु सम्यक् ध्यानकाले प्रयोजितासु न कम्पते न चलति ज्ञः योगी यथोक्तविभागज्ञः ओङ्कारस्य इत्यर्थः । न तस्य एवंविदः चलनम् उपपद्यते । यस्मात् जाग्रत्स्वप्नसुषुप्तपुरुषाः सह स्थानैः मात्रात्रयरूपेण ओङ्कारात्मरूपेण दृष्टाः ; स हि एवं विद्वान् सर्वात्मभूत ओङ्कारमयः कुतो वा चलेत् कस्मिन्वा ॥६॥
© 2023 KKP APP. All rights reserved | Design by SMDS