भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया प्रश्नोपनिषद्

ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति ।
नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥८॥

ततः ते शिष्या गुरुणा अनुशिष्टाः तं गुरुं कृतार्थाः सन्तो विद्यानिष्क्रयम् अन्यदपश्यन्तः किं कृतवन्त इत्युच्यते — अर्चयन्तः पूजयन्तः पादयोः पुष्पाञ्जलिप्रकिरणेन प्रणिपातेन च शिरसा । किमूचुः इत्याह — त्वं हि नः अस्माकं पिता ब्रह्मशरीरस्य विद्यया जनयितृत्वात् नित्यस्य अजरामरणस्य अभयस्य । यः त्वमेव अस्माकम् अविद्यायाः विपरीतज्ञानात् जन्मजरामरणरोगदुःखादिग्राहात् अपारात् अविद्यामहोदधेः विद्याप्लवेन परम् अपुनरावृत्तिलक्षणं मोक्षाख्यं महोदधेरिव पारं तारयसि अस्मान् इत्यतः पितृत्वं तव अस्मान्प्रति उपपन्नम् इतरस्मात् । इतरोऽपि हि पिता शरीरमात्रं जनयति, तथापि स पूज्यतमो लोके ; किमु वक्तव्यम् आत्यन्तिकाभयदातुः इत्यभिप्रायः । नमः परमऋषिभ्यः ब्रह्मविद्यासम्प्रदायकर्तृभ्यः । नमः परमऋषिभ्यः इति द्विर्वचनम् आदरार्थम् ॥८॥

ओं भद्रं कर्णेभिः श्रुणुयामदेवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाम्सस्तनूभिर्व्यशेम देवहितं यदायुः ॥
ओं शान्तिः शान्तिः शान्तिः

इति प्रश्नोपनिषद्भाष्ये षष्ठः प्रश्नः
इति श्रीमच्छङ्करभगवतः कृतौ
अथर्ववेदीय-प्रश्नोपनिषद्भाष्यम्

© 2023 KKP APP. All rights reserved | Design by SMDS