अथर्ववेदीया प्रश्नोपनिषद्
तस्मै स होवाच । आकाशो ह वा एष देवो वायुरग्निरापः पृथिवी
वाङ्मनश्चक्षुः श्रोत्रं च । ते प्रकाश्य अभिवदन्ति
वयमेतद्बाणमवष्टभ्य विधारयामः ॥२॥
एवं पृष्टवते तस्मै स ह उवाच — आकाशः ह वै एषः देवः वायुः अग्निः आपः पृथिवी इत्येतानि पञ्च महाभूतानि शरीरारम्भकाणि वाङ्मनश्चक्षुः श्रोत्रमित्यादीनि कर्मेन्द्रियबुद्धीन्द्रियाणि च । कार्यलक्षणाः करणलक्षणाश्च ते देवा आत्मनो माहात्म्यं प्रकाश्यं प्रकाश्य अभिवदन्ति स्पर्धमाना अहंश्रेष्ठतायै । कथं वदन्ति ? वयमेतत् बाणं कार्यकरणसङ्घातम् अवष्टभ्य प्रासादमिव स्तम्भादयः अविशिथिलीकृत्य विधारयामः विस्पष्टं धारयामः । मयैव एकेन अयं सङ्घातो ध्रियत इति एकैकस्याभिप्रायः ॥२॥
© 2023 KKP APP. All rights reserved | Design by SMDS