अथर्ववेदीया प्रश्नोपनिषद्
तस्मै स होवाच प्रजाकामो वै प्रजापतिः
स तपोऽतप्यत स तपस्तप्त्वा स मिथुनमुत्पादयते
रयिं च प्राणं चेति एतौ मे बहुधा प्रजाः करिष्यत इति ॥४॥
तस्मै एवं पृष्टवते स ह उवाच तदपाकरणाय आह— प्रजाकामः प्रजाः आत्मनः सिसृक्षुः वै, प्रजापतिः सर्वात्मा सन् जगत्स्रक्ष्यामीति एवं विज्ञानवान् यथोक्तकारी तद्भावभाविताः कल्पादौ निर्वृत्तो हिरण्यगर्भः, सृज्यमानानां प्रजानां स्थावरजङ्गमानां पतिः सन् , जन्मान्तरभावितं ज्ञानं श्रुतिप्रकाशितार्थविषयं तपः, अन्वालोचयत् अतप्यत । अथ तु सः एवं तपस्तप्त्वा श्रौतं ज्ञानम् अन्वालोच्य, सृष्टिसाधनभूतं मिथुनम् उत्पादयते मिथुनं द्वन्द्वम् उत्पादितवान् रयिं च सोमम् अन्नं, प्राणं च अग्निम् अत्तारम् इत्येतौ अग्नीषोमौ अत्रन्नभूतौ मे मम बहुधा अनेकधा प्रजाः करिष्यतः इति एवं सञ्चिन्त्य अण्डोत्पत्तिक्रमेण सूर्याचन्द्रमसौ अकल्पयत् ॥४॥
© 2023 KKP APP. All rights reserved | Design by SMDS