भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया प्रश्नोपनिषद्

तस्मै स होवाच इहैव अन्तःशरीरे सोम्य स पुरुषो यस्मिन्नेताः
षोडश कलाः प्रभवन्तीति ॥२॥

तस्मै स होवाच । इहैव अन्तःशरीरे हृदयपुण्डरीकाकाशमध्ये हे सोम्य स पुरुषः, न देशान्तरे विज्ञेयः । यस्मिन् एताः उच्यमानाः षोडश कलाः प्राणाद्याः प्रभवन्ति उत्पद्यन्ते इति षोडशभिः कलाभिः उपाधिभूताभिः सकल इव निष्कलः पुरुषो लक्ष्यते अविद्यया इति ; तदुपाधिकलाध्यारोप-अपनयनेन विद्यया स पुरुषः केवलो दर्शयितव्य इति कलानां तत्प्रभवत्वमुच्यते प्राणादीनाम् । अत्यन्तनिर्विशेषे हि अद्वये विशुद्धे तत्त्वे न शक्यः अध्यारोपमन्तरेण प्रतिपाद्यप्रतिपादनादिव्यवहारः कर्तुमिति कलानां प्रभव-स्थिति-अप्यया आरोप्यन्ते अविद्याविषयाः । चैतन्य-अव्यतिरेकेणैव हि कला जायमानास्तिष्ठन्त्यः प्रलीयमानाश्च सर्वदा लक्ष्यन्ते । अत एव भ्रान्ताः केचित् — अग्निसंयोगात् घृतमिव, घटाद्याकारेण चैतन्यमेव प्रतिक्षणं जायते नश्यतीति । तन्निरोधे शून्यमेव सर्वमिति अपरे । घटादिविषयं चैतन्यं चेतयिदुर्नित्यस्यात्मनोऽनित्यं जायते विनश्यतीत्यपरे । चैतन्यं भूतधर्म इति लौकायतिकाः ॥

अनपायोपजनधर्मकचैतन्यम् आत्मा एव नामरूपाद्युपाधिधर्मैः प्रत्यवभासते ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) ‘प्रज्ञानं ब्रह्म’ (ऐ. उ. ३ । १ । ३) ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) ‘विज्ञानघन एव’ (बृ. उ. २ । ४ । १२) इत्यादिश्रुतिभ्यः । स्वरूपव्यभिचारिषु पदार्थेषु चैतन्यस्य अव्यभिचारात् यथा यथा यो यः पदार्थो ज्ञायते, तथा तथा ज्ञायमानत्वादेव तस्य तस्य चैतन्यस्य अव्यभिचारित्वम् । वस्तुतत्त्वं भवति किञ्चित् , न ज्ञायत इति च अनुपपन्नम् ; रूपं च दृश्यते, न चास्ति चक्षुः यथा । व्यभिचरति तु ज्ञेयम् ; न ज्ञानं व्यभिचरति कदाचिदपि ज्ञेयम् , ज्ञेयाभावेऽपि ज्ञेयान्तरे भावात् ज्ञानस्य । न हि ज्ञाने असति ज्ञेयं नाम भवति कस्यचित् ; सुषुप्ते अदर्शनात् ॥

ज्ञानस्यापि सुषुप्ते अभावात् ज्ञेयवत् ज्ञानस्वरूपस्य व्यभिचार इति चेत् , न ; ज्ञेयावभासकस्य ज्ञानस्य आलोकवत् ज्ञेयाभिव्यक्त्यर्थत्वात् स्वव्यङ्ग्याभावे आलोक-अभाव-अनुपपत्तिवत् अप्रतीतेषु वस्तुषु सुषुप्ते विज्ञान-अभाव-अनुपपत्तेः । न हि अन्धकारे चक्षुषो रूप-अनुपलब्धौ चक्षुषः अभावः शक्यः कल्पयितुम् अवैनाशिकेन । वैनाशिको ज्ञेयाभावे ज्ञानाभावं कल्पयत्येव इति चेत् , येन तदभावं कल्पयेत् तस्य अभावः केन कल्प्यत इति वक्तव्यं वैनाशिकेन ; तदभावस्यापि ज्ञेयत्वात् ज्ञानाभावे तदनुपपत्तेः । ज्ञानस्य ज्ञेय-अव्यतिरिक्तत्वात् ज्ञेयाभावे ज्ञानाभाव इति चेत् , न ; अभावस्यापि ज्ञेयत्वाभ्युपगमात् — अभावोऽपि ज्ञेयोऽभ्युपगम्यते वैनाशिकैः नित्यश्च । तदव्यतिरिक्तं चेत्, ज्ञानं नित्यं कल्पितं स्यात् । तदभावस्य च ज्ञानात्मकत्वात् अभावत्वं च वाङ्मात्रमेव ; न परमार्थतः अभावत्वम् अनित्यत्वं च ज्ञानस्य । न च नित्यस्य ज्ञानस्य अभावनाममात्राध्यारोपे किञ्चित् नः च्छिन्नम् ॥

अथ अभावो ज्ञेयोऽपि सन् ज्ञानव्यतिरिक्त इति चेत् , न तर्हि ज्ञेयाभावो ज्ञानाभावः । ज्ञेयं ज्ञानव्यतिरिक्तम् ; न तु ज्ञानं ज्ञेयव्यतिरिक्तमिति चेत् , न ; शब्दमात्रत्वात् विशेष-अनुपपत्तेः । ज्ञेयज्ञानयोः एकत्वं चेदभ्युपगम्यते, ज्ञेयं ज्ञानव्यतिरिक्तम् , न ज्ञेयव्यतिरिक्तं ज्ञानम् इति तु शब्दमात्रमेव तत् — वह्निः अग्निव्यतिरिक्तः, अग्निः वह्निव्यतिरिक्त इति यद्वत् — अभ्युपगम्यम् । ज्ञेयव्यतिरेके तु ज्ञानस्य ज्ञेयाभावे ज्ञानाभाव-अनुपपत्तिः सिद्धा ॥

ज्ञेयाभावे अदर्शनात् अभावो ज्ञानस्येति चेत् , न ; सुषुप्ते ज्ञप्त्यभ्युपगमात् — वैनाशिकैरभ्युपगम्यते हि सुषुप्तेऽपि विज्ञानास्तित्वम् । तत्रापि ज्ञेयत्वम् अभ्युपगम्यते ज्ञानस्य स्वेनैव इति चेत् , न ; भेदस्य सिद्धत्वात् — सिद्धं हि अभावविज्ञेयविषयस्य ज्ञानस्य-अभावज्ञेयव्यतिरेकात् ज्ञेयज्ञानयोरन्यत्वम् । न हि तत्सिद्धं मृतमिव उज्जीवयितुं पुनः अन्यथा कर्तुं शक्यते वैनाशिकशतैरपि ॥

ज्ञानस्य स्व-अज्ञेयत्वे तदप्यन्येन तदप्यन्येन इति त्वत्पक्षे अतिप्रसङ्ग इति चेत् , न ; तद्विभागोपपत्तेः सर्वस्य — यदा हि सर्वं ज्ञेयं कस्यचित् , तदा तद्व्यतिरिक्तं ज्ञानं ज्ञानमेव इति द्वितीयो विभाग एव अभ्युपगम्यते अवैनाशिकैः । न तृतीयस्तद्विषय इति अनवस्थानुपपत्तिः । ज्ञानस्य स्वेनैव अविज्ञेयत्वे सर्वज्ञत्वहानिरिति चेत् , सोऽपि दोषः तस्यैवास्तु ; किं तन्निबर्हणेन अस्माकम् ? अनवस्थादोषश्च ज्ञानस्य ज्ञेयत्वाभ्युपगमात् — अवश्यं च वैनाशिकानां ज्ञानं ज्ञेयम् । स्वात्मना च अविज्ञेयत्वेन अनवस्था अनिवार्या । समान एवायं दोष इति चेत् , न ; ज्ञानस्य एकत्वोपपत्तेः — सर्वदेशकालपुरुषाद्यवस्थासु एकमेव ज्ञानं नामरूपाद्यनेकोपाधिभेदात् सवित्रादिजलादिप्रतिबिम्बवत् अनेकधा अवभासत इति । नासौ दोषः । तथा च इह इदमुच्यते ॥

ननु श्रुतेः इहैव अन्तःशरीरे परिच्छिन्नः कुण्डबदरवत् पुरुष इति, न ; प्राणादिकलाकारणत्वात् — न हि शरीरमात्रपरिच्छिन्नः प्राण-श्रद्धादीनां कलानां कारणत्वं प्रतिपत्तुं शक्नुयात् । कलाकार्यत्वाच्च शरीरस्य — न हि पुरुषकार्याणां कलानां कार्यं सत् शरीरं कारणकारणं स्वस्य पुरुषं कुण्डबदरमिव अभ्यन्तरीकुर्यात् । बीजवृक्षादिवत्स्यादिति चेत् — यथा बीजकार्यं वृक्षः तत्कार्यं च फलं स्वकारणकारणं बीजम् अभ्यन्तरीकरोति आम्रादि, तद्वत्पुरुषम् अभ्यन्तरीकुर्यात् शरीरं स्वकारणकारणमपीति चेत् , न ; अन्यत्वात् सावयवत्वाच्च — दृष्टान्ते कारणाद्बीजात् वृक्षफलसंवृत्तानि अन्यान्येव बीजानि ; दार्ष्टान्तिके तु स्वकारणकारणभूतः स एव पुरुषः शरीरे अभ्यन्तरीकृतः श्रूयते । बीजवृक्षादीनां सावयवत्वाच्च स्यात् आधाराधेयत्वम् ; निरवयवश्च पुरुषः, सावयवाश्च कलाः शरीरं च । एतेन आकाशस्यापि शरीराधारत्वमनुपपन्नम् ; किमुत आकाशकारणस्य पुरुषस्य ? तस्मादसमानो दृष्टान्तः ।

किं दृष्टान्तेन ? वचनात्स्यादिति चेत् , न ; वचनस्य अकारकत्वात् — न हि वचनं वस्तुनः अन्यथाकरणे व्याप्रियते ; किं तर्हि, यथाभूतार्थ-अवद्योतने । तस्मादन्तःशरीर इत्येतद्वचनम् ‘अण्डस्यान्तर्व्योम’ इतिवद्द्रष्टव्यम् । उपलब्धिनिमित्तत्वाच्च — दर्शन-श्रवण-मनन-विज्ञानादिलिङ्गैः अन्तःशरीरे परिच्छिन्न इव हि उपलभ्यते पुरुष उपलभ्यते चात्र । अत उच्यते — अन्तःशरीरे सोम्य स पुरुष इति । न पुनः आकाशकारणभूतः सन् कुण्डबदरवत् शरीरपरिच्छिन्न इति मनस अपि इच्छति वक्तुं मूढोऽपि ; किमुत प्रमाणभूता श्रुतिः ॥२॥

© 2023 KKP APP. All rights reserved | Design by SMDS