अथर्ववेदीया प्रश्नोपनिषद्
तस्मै स होवाच अतिप्रश्नान्पृच्छसि ब्रह्मिष्ठोऽसीति
तस्मात्तेऽहं ब्रवीमि ॥२॥
एवं पृष्टः तस्मै स होवाच आचार्यः । प्राण एव तावत् दुर्विज्ञेयत्वात् विषमप्रश्नार्हः ; तस्यापि जन्मादि त्वं पृच्छसि ; अतः अतिप्रश्नान्पृच्छसि । ब्रह्मिष्ठोऽसीति अतिशयेन त्वं ब्रह्मवित् , अतस्तुष्टोऽहम् , तस्मात् ते तुभ्यम् अहं ब्रवीमि यत्पृष्टं शृणु ॥२॥