भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया प्रश्नोपनिषद्

तान्वरिष्ठः प्राण उवाच मा मोहमापद्यथ अहमेवैतत् पञ्चधा आत्मानं प्रविभज्य एतद्बाणमवष्टभ्य विधारयामीति तेऽश्रद्दधाना बभूवुः ॥३॥

तान् एवम् अभिमानवतः वरिष्ठः मुख्यः प्राणः उवाच उक्तवान् — मा मैवं मोहम् आपद्यथ अविवेकितया अभिमानं मा कुरुत ; यस्मात् अहमेव एतद्बाणम् अवष्टभ्य विधारयामि पञ्चधा आत्मानं प्रविभज्य प्राणादिवृत्तिभेदं स्वस्य कृत्वा विधारयामि इति उक्तवति च तस्मिन् ते अश्रद्दधानाः अप्रत्ययवन्तः बभूवुः — कथमेतत् एवमिति ॥३॥

© 2023 KKP APP. All rights reserved | Design by SMDS