भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया प्रश्नोपनिषद्

तान् होवाच एतावदेव अहमेतत्परं ब्रह्म वेद नातः परमस्तीति ॥७॥

तान् एवमनुशिष्य शिष्यान् तान् होवाच पिप्पलादः किल एतावदेव वेद्यं परं ब्रह्म वेद विजानामि अहम् एतत् । न अतः अस्मात् परम् अस्ति प्रकृष्टतरं वेदितव्यम् इत्येवमुक्तवान् शिष्याणाम् अविदित-शेषास्तित्वाशङ्कानिवृत्तये कृतार्थबुद्धिजननार्थं च ॥७॥

© 2023 KKP APP. All rights reserved | Design by SMDS