अथ श्रीमच्छङ्करभगवतः कृतौ
अथर्ववेदीय-प्रश्नोपनिषद्भाष्यम्
प्रथमः प्रश्नः
ओं भद्रं कर्णेभिः श्रुणुयामदेवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाम्सस्तनूभिर्व्यशेम देवहितं यदायुः ॥
ओं शान्तिः शान्तिः शान्तिः
ओम् नमो ब्रह्मादिभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्यो
वंशर्षिभ्यो नमो महद्भ्यो नमो गुरुभ्यः
मन्त्रोक्तस्यार्थस्य विस्तरानुवादि इदं ब्राह्मणमारभ्यते । ऋषिप्रश्नप्रतिवाचनाख्यायिका तु विद्यास्तुतये । एवं संवत्सरब्रह्मचर्यसंवासादि-तपोयुक्तैर्ग्राह्या, पिप्पलादवत् सर्वज्ञकल्पैराचार्यैः वक्तव्या च, न येन केनचिदिति विद्यां स्तौति । ब्रह्मचर्यादिसाधनसूचनाच्च तत्कर्तव्यता स्यात् ॥
सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्म अन्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥१॥
सुकेशा च नामतः, भरद्वाजस्य अपत्यं भारद्वाजः । शैब्यश्च शिबेरपत्यं शैब्यः, सत्यकामो नामतः । सौर्यायणी सूर्यस्य अपत्यं सौर्यः, तस्य अपत्यं सौर्यायणिः ; छान्दसं सौर्यायणी इति ; गार्ग्यः गर्गगोत्रोत्पन्नः । कौसल्यश्च नामतः, अश्वलस्य अपत्यम् आश्वलायनः । भार्गवः भृगोः गोत्रापत्यं भार्गवः, वैदर्भिः विदर्भेषु भवः । कबन्धी नामतः, कत्यस्य अपत्यं कात्यायनः ; विद्यमानः प्रपितामहो यस्य सः ; युवप्रत्ययः । ते ह एते ब्रह्मपराः अपरं ब्रह्म -परत्वेन गताः, तदनुष्ठाननिष्ठाश्च ब्रह्मनिष्ठाः, परं ब्रह्म अन्वेषमाणाः किं तत् यन्नित्यं विज्ञेयमिति तत्प्राप्त्यर्थं यथाकामं यतिष्यामः इत्येवं तदन्वेषणं कुर्वन्तः, तदधिगमाय एष ह वै तत्सर्वं वक्ष्यतीति आचार्यम् उपजग्मुः । कथम् ? ते ह समित्पाणयः समिद्भारगृहीतहस्ताः सन्तः, भगवन्तं पूजावन्तं पिप्पलादम् आचार्यम् उपसन्नाः उपजग्मुः ॥१॥
© 2023 KKP APP. All rights reserved | Design by SMDS