अथर्ववेदीया प्रश्नोपनिषद्
सोऽभिमानादूर्ध्वमुत्क्रामत इव तस्मिन्नुत्क्रामति अथ इतरे सर्व एवोत्क्रामन्ते
तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रातिष्ठन्ते ।
तद्यथा मक्षिका मधुकरराजानमुत्क्रामन्तं
सर्वा एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रातिष्ठन्त
एवं वाङ्मनश्चक्षुः श्रोत्रं च ते प्रीताः प्राणं स्तुन्वन्ति ॥४॥
स च प्राणः तेषामश्रद्दधानताम् आलक्ष्य अभिमानात् ऊर्ध्वम् उत्क्रामत इव उत्क्रामतीव उत्क्रान्तवानिव स रोषान्निरपेक्षः । तस्मिन्नुत्क्रामति यद्वृत्तं तद्दृष्टान्तेन प्रत्यक्षीकरोति — तस्मिन् उत्क्रामति सति अथ अनन्तरमेव इतरे सर्व एव प्राणाश्चक्षुरादयः उत्क्रामन्ते उत्क्रामन्ति उच्चक्रमुः । तस्मिंश्च प्राणे प्रतिष्ठमाने तूष्णीं भवति अनुत्क्रामति सति, सर्व एव प्रातिष्ठन्ते तूष्णीं व्यवस्थिता बभूवुः । तत् यथा लोके मक्षिकाः मधुकराः स्वराजानं मधुकरराजानम् उत्क्रामन्तं प्रति सर्वा एव उत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रातिष्ठन्ते प्रतितिष्ठन्ति । यथायं दृष्टान्तः एवं वाङ्मनश्चक्षुः श्रोत्रं च इत्यादयः ते उत्सृज्य अश्रद्दधानतां बुद्ध्वा प्राणमाहात्म्यं प्रीताः प्राणं स्तुन्वन्ति स्तुवन्ति ॥४॥
© 2023 KKP APP. All rights reserved | Design by SMDS