भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया प्रश्नोपनिषद्

स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति
भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते । एवमेवास्य परिद्रष्टुरिमाः
षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति
भिद्येते चासां नामरूपे पुरुष इत्येवं प्रोच्यते
स एषोऽकलोऽमृतो भवति तदेष श्लोकः ॥५॥

कथम् ? सः दृष्टान्तः, यथा लोके इमा नद्यः स्यन्दमानाः स्रवन्त्यः समुद्रायणाः, समुद्र एव अयनं गतिरात्मभावो यासां ताः समुद्रायणाः, समुद्रं प्राप्य उपगम्य अस्तम् अदर्शनं नामरूपतिरस्कारं गच्छन्ति ; तासां च अस्तं गतानां भिद्येते विनश्येते नामरूपे गङ्गा यमुना इत्यादिलक्षणे ; तदभेदेन समुद्र इत्येवं प्रोच्यते तद्वस्तूदकलक्षणम् ; एवं यथायं दृष्टान्तः उक्तलक्षणस्य प्रकृतस्य अस्य पुरुषस्य परिद्रष्टुः परि समन्तात् द्रष्टुः दर्शनस्य कर्तुः स्वरूपभूतस्य । यथा अर्कः स्वात्मप्रकाशस्य कर्ता सर्वतः, तद्वत् इमाः षोडश प्राणाद्या उक्ताः कलाः पुरुषायणाः नदीनामिव समुद्रः पुरुषः अयनम् आत्मभावगमनं यासां कलानां ताः पुरुषायणाः पुरुषं प्राप्य पुरुषात्मभावमुपगम्य तथैव अस्तं गच्छन्ति । भिद्येते च आसां नामरूपे कलानां प्राणाद्याख्या रूपं च यथास्वम् । भेदे च नामरूपयोर्यदनष्टं तत्तत्त्वं पुरुषः इत्येवं प्रोच्यते ब्रह्मविद्भिः ॥

© 2023 KKP APP. All rights reserved | Design by SMDS