भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया प्रश्नोपनिषद्

एतस्मिन्काले अविद्याकामकर्मनिबन्धनानि कार्यकरणानि शान्तानि भवन्ति । तेषु शान्तेषु आत्मस्वरूपम् उपाधिभिः अन्यथा विभाव्यमानम् अद्वयम् एकं शिवं शान्तं भवतीति एतामेव अवस्थां पृथिव्याद्यविद्याकृतमात्रानुप्रवेशेन दर्शयितुं दृष्टान्तमाह—

स यथा सोम्य वयांसि वासोवृक्षं सम्प्रतिष्ठन्त
एवं ह वै तत्सर्वं पर आत्मनि सम्प्रतिष्ठते ॥७॥

स दृष्टान्तः यथा येन प्रकारेण हि सोम्य प्रियदर्शन, वयांसि पक्षिणः वासार्थं वृक्षं वासोवृक्षं प्रति सम्प्रतिष्ठन्ते गच्छन्ति, एवं यथा दृष्टान्तः ह वै तत् वक्ष्यमाणं सर्वं परे आत्मनि अक्षरे सम्प्रतिष्ठते ॥७॥

© 2023 KKP APP. All rights reserved | Design by SMDS