अथर्ववेदीया प्रश्नोपनिषद्
स यदा तेजसाभिभूतो भवति । अत्रैष देवः स्वप्नान्न पश्यति अथ तदा एतस्मिञ्शरीरे एतत्सुखं भवति ॥६॥
सः यदा मनोरूपो देवो यस्मिन्काले सौरेण पित्ताख्येन तेजसा नाडीशयेन सर्वतः अभिभूतो भवति तिरस्कृतवासनाद्वारो भवति, तदा सह करणैः मनसो रश्मयो हृद्युपसंहृता भवन्ति । यदा मनो दार्वग्निवत् अविशेषविज्ञानरूपेण कृत्स्नं शरीरं व्याप्य अवतिष्ठते, तदा सुषुप्तो भवति । अत्र एतस्मिन्काले एषः मनआख्यो देवः स्वप्नान् न पश्यति दर्शनद्वारस्य निरुद्धत्वात्तेजसा । अथ तदा एतस्मिन् शरीरे एतत्सुखं भवति यद्विज्ञानं निराबाधम् अविशेषेण शरीरव्यापकं प्रसन्नं भवतीत्यर्थः ॥६॥
© 2023 KKP APP. All rights reserved | Design by SMDS