अथर्ववेदीया प्रश्नोपनिषद्
ईश्वरेणैव सर्वाधिकारी प्राणः पुरुषेण सृज्यते ॥ कथम् ?
स प्राणमसृजत प्राणाच्छ्रद्धा खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनः ।
अन्नम् अन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु च नाम च ॥४॥
कथम् ? सः पुरुषः उक्तप्रकारेण ईक्षित्वा सर्वप्राणं हिरण्यगर्भाख्यं सर्वप्राणिकरणाधारम् अन्तरात्मानम् असृजत सृष्टवान् । ततः प्राणात् श्रद्धां सर्वप्राणिनां शुभकर्मप्रवृत्तिहेतुभूताम् ; ततः कर्मफलोपभोगसाधनाधिष्ठानानि कारणभूतानि महाभूतानि असृजत — खं शब्दगुणकम् , वायुः स्वेन स्पर्शगुणेन शब्दगुणेन च विशिष्टो द्विगुणः, तथा ज्योतिः स्वेन रूपेण पूर्वगुणाभ्यां च विशिष्टं शब्दस्पर्शाभ्यां त्रिगुणम् , तथा आपो रसगुणेन असाधारणेन पूर्वगुणानुप्रवेशेन च चतुर्गुणाः, तथा गन्धगुणेन पूर्वगुणानुप्रवेशेन च पञ्चगुणा पृथिवी, तथा तैरेव भूतैरारब्धम् इन्द्रियं द्विप्रकारं बुद्ध्यर्थं कर्मार्थं च दशसङ्ख्याकम् , तस्य च ईश्वरम् अन्तःस्थं संशयविकल्पादिलक्षणं मनः । एवं प्राणिनां कार्यं करणं च सृष्ट्वा तत्स्थित्यर्थं व्रीहियवादिलक्षणम् अन्नम् , ततश्च अन्नात् अद्यमानात् वीर्यं सामर्थ्यं बलं सर्वकर्मप्रवृत्तिसाधनम् , तद्वीर्यवतां च प्राणिनां तपः विशुद्धिसाधनं सङ्कीर्यमाणानाम् , मन्त्राः तपोविशुद्धान्तर्बहिःकरणेभ्यः कर्मसाधनभूता ऋग्यजुःसाम-अथर्वाङ्गिरसः ; ततः कर्म अग्निहोत्रादिलक्षणम् , ततो लोकाः कर्मणां फलम् , तेषु च लोकेषु सृष्टानां प्राणिनां नाम च देवदत्तो यज्ञदत्त इत्यादि । एवम् एताः कलाः प्राणिनाम् अविद्यादिदोषबीजापेक्षया सृष्टाः तैमिरिकदृष्टिसृष्टा इव द्विचन्द्र-मशक-मक्षिकाद्याः स्वप्नदृक्सृष्टा इव च सर्वपदार्थाः पुनः तस्मिन्नेव पुरुषे प्रलीयन्ते हित्वा नामरूपादिविभागम् ॥४॥
© 2023 KKP APP. All rights reserved | Design by SMDS