भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया प्रश्नोपनिषद्

यस्मिन्नेताः षोडश कलाः प्रभवन्तीत्युक्तः पुरुषविशेषणार्थः कलानां प्रभवः, स च अन्यार्थोऽपि श्रुतः केन क्रमेण स्यात् इत्यतः इदमुच्यते । चेतनपूर्विका च सृष्टिरित्येवमर्थं च ।

स ईक्षाञ्चक्रे कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि
कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति ॥३॥

स पुरुषः षोडशकलः पृष्टो यो भारद्वाजेन सः ईक्षाञ्चक्रे ईक्षणं दर्शनं चक्रे — कृतवानित्यर्थः — सृष्टिफलक्रमादिविषयम् । कथमिति, उच्यते — कस्मिन् कर्तृविशेषे देहादुत्क्रान्ते उत्क्रान्तो भविष्यामि अहमेव ; कस्मिन् वा शरीरे प्रतिष्ठिते अहं प्रतिष्ठास्यामि प्रतिष्ठितः स्यामित्यर्थः ।

ननु अत्मा अकर्ता प्रधानं कर्तृ ; अतः पुरुषार्थं प्रयोजनम् उररीकृत्य प्रधानं प्रवर्तते महदाद्याकारेण ; तत्र इदमनुपपन्नं पुरुषस्य स्वातन्त्र्येण ईक्षापूर्वकं कर्तृत्ववचनम् , सत्त्वादिगुणसाम्ये प्रधाने प्रमाणोपपन्ने सृष्टिकर्तरि सति ईश्वरेच्छानुवर्तिषु वा परमाणुषु सत्सु आत्मनोऽपि एकत्वेन कर्तृत्वे साधनाभावात् आत्मनः आत्मनि अनर्थकर्तृत्वानुपपत्तेश्च । न हि चेतनावान् बुद्धिपूर्वकारी आत्मनः अनर्थं कुर्यात् तस्मात् पुरुषार्थेन प्रयोजनेन ईक्षापूर्वकमिव नियतक्रमेण प्रवर्तमाने अचेतनेऽपि प्रधाने चेतनवदुपचारोऽयं स ईक्षाञ्चक्रे इत्यादिः ; यथा राज्ञः सर्वार्थकारिणि भृत्ये राजा इति, तद्वत् ॥

न ; आत्मनो भोक्तृत्ववत् कर्तृत्वोपपत्तेः — यथा साङ्‍ख्यस्य चिन्मात्रस्य अपरिणामिनोऽपि आत्मनो भोक्तृत्वम् , तद्वत् वेदवादिनाम् ईक्षापूर्वकं जगत्कर्तृत्वमुपपन्नं श्रुतिप्रामाण्यात् ॥

तत्त्वान्तरपरिणामात् आत्मनः अनित्यत्व-अशुद्धत्व-अनेकत्वनिमित्तं न चिन्मात्रस्वरूपविक्रिया अतः पुरुषस्य स्वात्मन्येव भोक्तृत्वे चिन्मात्रस्वरूपविक्रिया न दोषाय । भवतां पुनः वेदवादिनां सृष्टिकर्तृत्वे तत्त्वान्तरपरिणाम एवेति आत्मनः अनित्यत्वादिसर्वदोषप्रसङ्ग इति चेत् , न ; एकस्यापि अत्मनः अविद्याविषय-नामरूप-उपाध्यनुपाधिकृत-विशेषाभ्युपगमात् । अविद्याकृतनामरूपोपाधिनिमित्तो हि विशेषः अभ्युपगम्यते आत्मनो बन्धमोक्षादिशास्त्रकृतसंव्यवहाराय । परमार्थतः अनुपाधिकृतं च तत्त्वम् एकमेवाद्वितीयम् उपादेयं सर्वतार्किकबुद्ध्यनवगम्यं हि अजम् अभयं शिवम् इष्यते । न तत्र कर्तृत्वं भोक्तृत्वं वा क्रियाकारकफलं वा अस्ति, अद्वैतत्वात् सर्वभावानाम् ॥

साङ्‍ख्यास्तु अविद्याध्यारोपितमेव पुरुषे कर्तृत्वं क्रियाकारकं फलं चेति कल्पयित्वा आगमबाह्यत्वात् पुनस्ततः त्रस्यन्तः परमार्थत एव भोक्तृत्वं पुरुषस्य इच्छन्ति । तत्त्वान्तरं च प्रधानं पुरुषाद्बाह्यं परमार्थवस्तुभूतमेव कल्पयन्तः अन्यतार्किककृतबुद्धिविषयाः सन्तो विहन्यन्ते । तथा इतरे तार्किकाः साङ्ख्यैः ; इत्येवं परस्परविरुद्धार्थकल्पनात आमिषार्थिन इव प्राणिनः अन्योन्यविरुध्यमानार्थदर्शित्वात् परमार्थतत्त्वात् दूरमेव अपकृष्यन्ते । अतः तन्मतमनादृत्य वेदान्तार्थतत्त्वम् एकत्वदर्शनं प्रति आदरवन्तो मुमुक्षवः स्युः इति तार्किकमतदोषप्रदर्शनं किञ्चिदुच्यते अस्माभिः ; न तु तार्किकवत् तात्पर्येण । तथा एतदत्र उक्तम् — विवदत्स्वेव निक्षिप्य विरोधोद्भवकारणम् । तैः संरक्षितसद्बुद्धिः सुखं निर्वाति वेदवित् ॥

किञ्च, भोक्तृत्वकर्तृत्वयोः विक्रिययोः विशेषानुपपत्तिः । का नाम असौ कर्तृत्वात् जात्यन्तरभूता भोक्तृत्वविशिष्टा विक्रिया, यतो भोक्तैव पुरुषः कल्प्यते न कर्ता ; प्रधानं तु कर्तृ इव न भोक्तृ इति । ननु उक्तं पुरुषः चिन्मात्र एव ; स च स्वात्मस्थो विक्रियते भुञ्जानः, न तत्त्वान्तरपरिणामेन । प्रधानं तु तत्त्वान्तरपरिणामेन विक्रियते ; अतो नैकम् अशुद्धम् अचेतनं च इत्यादिधर्मवत् । तद्विपरीतः पुरुषः । नासौ विशेषः, वाङ्मात्रत्वात् । प्राग्भोगोत्पत्तेः केवलचिन्मात्रस्य पुरुषस्य भोक्तृत्वं नाम विशेषो भोगोत्पत्तिकाले चेत् जायते, निवृत्ते च भोगे पुनः तद्विशेषादपेतः चिन्मात्र एव भवतीति चेत् ; महदाद्याकारेण च परिणम्य प्रधानं ततः अपेत्य पुनः प्रधानस्वरूपेण व्यवतिष्ठत इति अस्यां कल्पनायां न कश्चिद्विशेष इति वाङ्मात्रेण प्रधानपुरुषयोः वशिष्टविक्रिया कल्प्यते ॥

अथ भोगकालेऽपि चिन्मात्र एव प्राग्वत् पुरुष इति चेत् , न तर्हि परमार्थतो भोगः पुरुषस्य । अथ भोगकाले चिन्मात्रस्य विक्रिया परमार्था एव, तेन भोगः पुरुषस्य इति चेत् , न ; प्रधानस्यापि भोगकाले विक्रियावत्त्वात् भोक्तृत्वप्रसङ्गः । चिन्मात्रस्यैव विक्रिया भोक्तृत्वमिति चेत् , औष्ण्याद्यसाधारणधर्मवताम् अग्न्यादीनाम् अभोक्तृत्वे हेत्वनुपपत्तिः ॥

प्रधानपुरुषयोः द्वयोः युगपद्भोक्तृत्वमिति चेत् , न ; प्रधानस्य पारार्थ्यानुपपत्तेः — न हि भोक्त्रोः द्वयोः इतरेतरगुणप्रधानभाव उपपद्यते प्रकाशयोरिव इतरेतरप्रकाशने । भोगधर्मवति सत्त्वाङ्गिनि चेतसि पुरुषस्य चैतन्यप्रतिबिम्बोदयात् अविक्रियस्य पुरुषस्य भोक्तृत्वमिति चेत् , न ; पुरुषस्य विशेषाभावे भोक्तृत्वकल्पनानर्थक्यात् । भोगरूपश्चेदनर्थः पुरुषस्य नास्ति सदा निर्विशेषत्वात् पुरुषस्य, कस्य अपनयनार्थं मोक्षसाधनं शास्त्रं प्रणीयते ? अविद्याध्यारोपित अनर्थापनयनाय शास्त्रप्रणयनमिति चेत् , परमार्थतः पुरुषो भोक्ता एव, न कर्ता ; प्रधानं कर्त्रा इव न भोक्तृ परमार्थसद्वस्त्वन्तरं पुरुषाच्च इतीयं कल्पना आगमबाह्या व्यर्था निर्हेतुका च इति नादर्तव्या मुमुक्षुभिः ॥

एकत्वेऽपि शास्त्रप्रणयनात् आनर्थक्यमिति चेत् , न ; अभावात् — सत्सु हि शास्त्रप्रणेत्रादिषु तत्फलार्थिषु च शास्त्रस्य प्रणयनम् अनर्थकं सार्थकं वा इति विकल्पना स्यात् । न हि आत्मैकत्वे शास्त्रप्रणेत्रादयः ततो भिन्नाः सन्ति ; तदभावे एवं विकल्पना एव अनुपपन्ना । अभ्युपगते आत्मैकत्वे प्रमाणार्थश्च अभ्युपगतो भवता यदात्मैकत्वमभ्युपगच्छता । तदभ्युपगमे च विकल्पानुपपत्तिम् आह शास्त्रम् ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १४) इत्यादि ; शास्त्रप्रणयनाद्युपपत्तिं च आह अन्यत्र परमार्थवस्तुस्वरूपात् अविद्याविषये ‘यत्र हि द्वैतमिव भवति’ (बृ. उ. ४ । ५ । १४) इत्यादि विस्तरतो वाजसनेयके । अत्र च विभक्ते विद्याविद्ये परापरे इति आदावेव शास्त्रस्य । अतो न तार्किकवादभटप्रवेशो वेदान्त-राजप्रमाण-बाहुगुप्ते इह आत्मैकत्वविषये इति । एतेन अविद्याकृतनामरूपाद्युपाधिकृत-अनेकशक्तिसाधनकृत-भेदवत्त्वात् ब्रह्मणः सृष्ट्यादिकर्तृत्वे साधनाद्यभावो दोषः प्रत्युक्तो वेदितव्यः, परैरुक्तः आत्मानर्थकर्तृत्वादिदोषश्च ॥

यस्तु दृष्टान्तो राज्ञः सर्वार्थकारिणि कर्तरि भृत्ये उपचारो राजा कर्ता इति, सोऽत्र अनुपपन्नः ; ‘स ईक्षाञ्चक्रे’ इति श्रुतेः मुख्यार्थबाधनात् प्रमाणभूतायाः । तत्र हि गौणी कल्पना शब्दस्य, यत्र मुख्यार्थो न सम्भवति । इह तु अचेतनस्य मुक्त-बद्धपुरुषविशेषापेक्षया कर्तृकर्मदेशकालनिमित्तापेक्षया च बन्धमोक्षादिफलार्था नियता पुरुषं प्रति प्रवृत्तिः न उपपद्यते ; यथोक्तसर्वज्ञेश्वरकर्तृत्वपक्षे तु उपपन्ना ॥३॥

© 2023 KKP APP. All rights reserved | Design by SMDS