भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया प्रश्नोपनिषद्

स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते । तदेतदृचाभ्युक्तम् ॥ ७ ॥

स एषः अत्ता प्राणो वैश्वानरः सर्वात्मा विश्वरूपः विश्वात्मत्वाच्च प्राणः अग्निश्च स एव अत्ता उदयते उद्गच्छति प्रत्यहं सर्वा दिशः आत्मसात्कुर्वन् । तदेतत् उक्तं वस्तु ऋचा मन्त्रेणापि अभ्युक्तम् ॥७॥

© 2023 KKP APP. All rights reserved | Design by SMDS