अथर्ववेदीया प्रश्नोपनिषद्
ऋग्भिरेतं यजुर्भिरन्तरिक्षं
सामभिर्यत्तत्कवयो वेदयन्ते ।
तमोङ्कारेणैवायतनेनान्वेति विद्वान्
यत्तच्छान्तमजरममृतमभयं परं चेति ॥७॥
सर्वार्थसङ्ग्रहार्थो द्वितीयो मन्त्रः — ऋग्भिः एतं लोकं मनुष्योपलक्षितम् । यजुर्भिः अन्तरिक्षं सोमाधिष्ठितम् । सामभिः यत् तद्ब्रह्मलोक इति तृतीयं कवयः मेधाविनो विद्यावन्त एव न अविद्वांसः वेदयन्ते । तं त्रिविधं लोकम् ओङ्कारेण साधनेन अपरब्रह्मलक्षणम् अन्वेति अनुगच्छति विद्वान् । तेनैव ओङ्कारेण यत्तत्परं ब्रह्म अक्षरं सत्यं पुरुषाख्यं शान्तं विमुक्तजाग्रत्स्वप्नसुषुप्तादिविशेषं सर्वप्रपञ्चविवर्जितम् , अत एव अजरं जरावर्जितम् अमृतं मृत्युवर्जितम् अत एव । यस्मात् जरादिविक्रियारहितम् अतः अभयम् । यस्मादेव अभयं तस्मात् परं निरतिशयम् । तदपि ओङ्कारेणैव आयतनेन गमनसाधनेन अन्वेति इत्यर्थः । इतिशब्दो वाक्यपरिसमाप्त्यर्थः ॥७॥
इति प्रश्नोपनिषद्भाष्ये पञ्चमः प्रश्नः
© 2023 KKP APP. All rights reserved | Design by SMDS