अथर्ववेदीया प्रश्नोपनिषद्
प्राणस्येदं वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम् ।
मातेव पुत्रान् रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥१३॥
किं बहुना । अस्मिंल्लोके प्राणस्यैव वशे सर्वमिदं यत्किञ्चिदुपभोगजातं त्रिदिवे तृतीयस्यां दिवि च यत् प्रतिष्ठितं देवाद्युपभोगलक्षणं तस्यापि प्राण एव ईशिता रक्षिता । अतो माता इव पुत्रान् अस्मान् रक्षस्व पालयस्व । त्वन्निमित्ता हि ब्राह्म्यः क्षात्त्र्यश्च श्रियः ताः त्वं श्रीश्च श्रियश्च प्रज्ञां च त्वत्स्थितिनिमित्तां विधेहि नः विधत्स्व इत्यर्थः । इत्येवं सर्वात्मतया वागादिभिः प्राणैः स्तुत्या गमितमहिमा प्राणः प्रजापतिरेव इत्यवधृतम् ॥१३॥
इति प्रश्नोपनिषद्भाष्ये द्वितीयः प्रश्नः
© 2023 KKP APP. All rights reserved | Design by SMDS