भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया प्रश्नोपनिषद्

प्राणाग्नय एवैतस्मिन्पुरे जाग्रति । गार्हपत्यो ह वा एषोऽपानो
व्यानोऽन्वाहार्यपचनो यद्गार्हपत्यात्प्रणीयते
प्रणयनादाहवनीयः प्राणः ॥३॥

सुप्तवत्सु श्रोत्रादिषु करणेषु एतस्मिन् पुरे नवद्वारे देहे प्राणाग्नयः प्राणा एव पञ्च वायवः अग्नय इव अग्नयः जाग्रति । अग्निसामान्यं हि आह — गार्हपत्यो ह वा एषोऽपानः कथमिति, आह । यस्मात् गार्हपत्यात् अग्निहोत्रकाले इतरोऽग्निः आहवनीयः प्रणीयते प्रणयनात् , प्रणीयते अस्मादिति प्रणयनो गार्हपत्योऽग्निः, तथा सुप्तस्य अपानवृत्तेः प्रणीयत इव प्राणो मुखनासिकाभ्यां सञ्चरति अतः आहवनीयस्थानीयः प्राणः । व्यानस्तु हृदयात् दक्षिणसुषिरद्वारेण निर्गमात् दक्षिणदिक्सम्बन्धात् अन्वाहार्यपचनः दक्षिणाग्निः ॥३॥

© 2023 KKP APP. All rights reserved | Design by SMDS