अथर्ववेदीया प्रश्नोपनिषद्
प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे ।
तुभ्यं प्राण प्रजास्त्विमा बलिं हरन्ति यः प्राणैः प्रतितिष्ठसि ॥७॥
किञ्च, यः प्रजापतिरपि स त्वमेव गर्भे चरसि, पितुर्मातुश्च प्रतिरूपः सन् प्रतिजायसे ; प्रजापतित्वादेव प्रागेव सिद्धं तव मातृपितृत्वम् ; सर्वदेहदेहि-आकृतिच्छन्नः एकः प्राणः सर्वात्मास इत्यर्थः । तुभ्यं त्वदर्थाय इमाः मनुष्याद्याः प्रजास्तु हे प्राण चक्षुरादिद्वारैः बलिं हरन्ति, यः त्वं प्राणैः चक्षुरादिभिः सह प्रतितिष्ठसि सर्वशरीरेषु, अतः तुभ्यं बलिं हरन्तीति युक्तम् । भोक्तासि यतस्त्वं तवैव अन्यत्सर्वं भोज्यम् ॥७॥