भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया प्रश्नोपनिषद्

अतः परं यदात्मस्वरूपं जलसूर्यकादिवत् भोक्तृत्वकर्तृत्वेन इह अनुप्रविष्टम्-

परमेवाक्षरं प्रतिपद्यते स यो ह वै तदच्छायमशरीरमलोहितं शुभ्रम्
अक्षरं वेदयते यस्तु सोम्य । स सर्वज्ञः सर्वो भवति तदेष श्लोकः ॥१०॥

तदेकत्वविदः फलमाह— परमेव अक्षरं वक्ष्यमाणविशेषणं प्रतिपद्यते इति । एतदुच्यते— स यो ह वै तत् सर्वैषणाविनिर्मुक्तः अच्छायं तमोवर्जितम् , अशरीरं नामरूपसर्वोपाधिशरीरवर्जितम् , अलोहितं लोहितादिसर्वगुणवर्जितम् , यत एवमतः शुभ्रं शुद्धम् , सर्वविशेषणरहितत्वात् अक्षरम् , सत्यं पुरुषाख्यम् अप्राणम् अमनः अगोचरं शिवं शान्तं सबाह्याभ्यन्तरम् अजं वेदयते विजानाति यस्तु सर्वत्यागी हे सोम्य, सः सर्वज्ञः न तेन अविदितं किञ्चित्सम्भवति । पूर्वमविद्यया असर्वः आसीत् । पुनः विद्यया अविद्यापनये सर्वो भवति । तत् अस्मिन्नर्थे एषः श्लोकः मन्त्रो भवति उक्तार्थसङ्ग्राहकः ॥

© 2023 KKP APP. All rights reserved | Design by SMDS