अथर्ववेदीया प्रश्नोपनिषद्
पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ।
अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति ॥११॥
पञ्चपादं पञ्च ऋतवः पादा इवास्य संवत्सरात्मन आदित्यस्य, तैर्हि असौ पादैरिव ऋतुभिः आवर्तते । हेमन्तशिशिरौ एकीकृत्य इयं कल्पना । पितरं सर्वस्य जनयितृत्वात्पितृत्वं तस्य ; द्वादशाकृतिं द्वादश मासा आकृतयः अवयवा आकरणं वा अवयविकरणम् अस्य द्वादशमासैः तं द्वादशाकृतिम् , दिवः द्युलोकात् परे ऊर्ध्वे अर्धे स्थाने तृतीयस्यां दिवि इत्यर्थः ; पुरीषिणं पुरीषवन्तम् उदकवन्तम् आहुः कालविदः । अथ तमेव अन्ये इमे उ परे कालविदः विचक्षणं निपुणं सर्वज्ञं सप्तचक्रे सप्तहयरूपे चक्रे सन्ततगतिमति कालात्मनि षडरे षडृतुमति आहुः सर्वमिदं जगत्कथयन्ति — अर्पितम् अरा इव रथनाभौ निविष्टमिति । यदि पञ्चपादो द्वादशाकृतिः यदि वा सप्तचक्रः षडरः सर्वथापि संवत्सरः कालात्मा प्रजापतिः चन्द्रादित्यलक्षणो जगतः कारणम् ॥११॥
© 2023 KKP APP. All rights reserved | Design by SMDS