भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया प्रश्नोपनिषद्

पायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रातिष्ठते मध्ये तु समानः । एष ह्येतद्धुतमन्नं समं नयति तस्मादेताः सप्तार्चिषो भवन्ति ॥५॥

तत्र विभागः । पायूपस्थे पायुश्च उपस्थश्च पायूपस्थं तस्मिन् । अपानम् आत्मभेदं मूत्रपुरीषाद्यपनयनं कुर्वन् संनिधत्ते तिष्ठति । तथा चक्षुःश्रोत्रे चक्षुश्च श्रोत्रं च चक्षुःश्रोत्रं तस्मिन् चक्षुःश्रोत्रे । मुखनासिकाभ्यां मुखं च नासिका च मुखनासिके ताभ्यां मुखनासिकाभ्यां निर्गच्छन् प्राणः स्वयं सम्राट्स्थानीयः प्रातिष्ठते प्रतितिष्ठति । मध्ये तु प्राणापानयोः स्थानयोः नाभ्याम् , समानः अशितं पीतं च समं नयतीति समानः । एषः हि यस्मात् यदेतत् हुतं भुक्तं पीतं च आत्माग्नौ प्रक्षिप्तम् अन्नं समं नयति, तस्मात् अशितपीत-इन्धनात् अग्नेः औदर्यात् हृदयदेशं प्राप्तात् एताः सप्तसङ्‍ख्याका अर्चिषः दीप्तयो निर्गच्छन्त्यो भवन्ति । शीर्षण्यप्राणद्वारा दर्शनश्रवणादिलक्षण-रूपादिविषयप्रकाश इत्यभिप्रायः ॥७॥

© 2023 KKP APP. All rights reserved | Design by SMDS