अथर्ववेदीया प्रश्नोपनिषद्
मासो वै प्रजापतिः तस्य कृष्णपक्ष एव रयिः शुक्लः प्राणः
तस्मादेत ऋषयः शुक्ल इष्टं कुर्वन्ति इतर इतरस्मिन् ॥१२॥
यस्मिन्निदं प्रोतं विश्वं स एव प्रजापतिः संवत्सराख्यः स्वावयवे मासे कृत्स्नः परिसमाप्यते । मासो वै प्रजापतिः यथोक्तलक्षण एव मिथुनात्मकः । तस्य मासात्मनः प्रजापतेरेको भागः कृष्णपक्ष एव रयिः अन्नं चन्द्रमाः अपरो भागः शुक्लः शुक्लपक्षः प्राणः आदित्योऽत्ताग्निः यस्मात् शुक्लपक्षात्मानं प्राणं सर्वमेव पश्यन्ति, तस्मात् प्राणदर्शिन एते ऋषयः कृष्णपक्षेऽपि इष्टं यागं कुर्वन्तः शुक्लपक्षे एव कुर्वन्ति । प्राणव्यतिरेकेण कृष्णपक्षः तैर्न दृश्यते यस्मात् ; इतरे तु प्राणं न पश्यन्ति इति अदर्शनलक्षणं कृष्णात्मानमेव पश्यन्ति । इतरे इतरस्मिन्कृष्णपक्षे एव कुर्वन्ति शुक्ले कुर्वन्तोऽपि ॥१२॥
© 2023 KKP APP. All rights reserved | Design by SMDS