भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ अथर्वर्वेदीया प्रश्नॊपनिषत्

ओं भद्रं कर्णेभिः श्रुणुयामदेवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाम्सस्तनूभिर्व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो
अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
ओं शान्तिः शान्तिः शान्तिः

प्रथमः प्रश्नः

सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥१॥

तान्ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ यथाकामं प्रश्नान् पृच्छत यदि विज्ञास्यामः सर्वं ह वो वक्ष्याम इति ॥२॥

अथ कबन्धी कात्यायन उपेत्य पप्रच्छ भगवन् कुतो ह वा इमाः प्रजाः प्रजायन्त इति ॥३॥
तस्मै स होवाच प्रजाकामो वै प्रजापतिः स तपोऽतप्यत स तपस्तप्त्वा स मिथुनमुत्पादयते रयिं च प्राणं चेति एतौ मे बहुधा प्रजाः करिष्यत इति ॥४॥

आदित्यो ह वै प्राणो रयिरेव चन्द्रमा रयिर्वा एतत्सर्वं यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः ॥५॥

अथादित्य उदयन् यत्प्राचीं दिशं प्रविशति तेन प्राच्यान्प्राणान् रश्मिषु संनिधत्ते । यद्दक्षिणां यत्प्रतीचीं यदुदीचीं यदधो यदूर्ध्वं यदन्तरा दिशो यत्सर्वं, प्रकाशयति तेन, सर्वान्प्राणान् रश्मिषु संनिधत्ते ॥६॥

स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते । तदेतदृचाभ्युक्तम् ॥७॥

विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् ।
सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥८॥

संवत्सरो वै प्रजापतिः तस्यायने दक्षिणं चोत्तरं च । तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते
ते चान्द्रमसमेव लोकमभिजयन्ते । त एव पुनरावर्तन्ते
तस्मादेत ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते ।
एष ह वै रयिः यः पितृयाणः ॥९॥

अथ उत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्यया आत्मानमन्विष्य आदित्यमभिजयन्ते । एतद्वै प्राणानामायतनम् एतदमृतम् अभयम् एतत्परायणम् एतस्मान्न पुनरावर्तन्त इत्येष निरोधः । तदेष श्लोकः ॥१०॥

पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ।
अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति ॥११॥

मासो वै प्रजापतिः तस्य कृष्णपक्ष एव रयिः शुक्लः प्राणः
तस्मादेत ऋषयः शुक्ल इष्टं कुर्वन्ति इतर इतरस्मिन् ॥१२॥

अहोरात्रो वै प्रजापतिः तस्य अहरेव प्राणो रात्रिरेव रयिः प्राणं वा एते प्रस्कन्दन्ति
ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्यमेव तद् यद्रात्रौ रत्या संयुज्यन्ते ॥१३॥

अन्नं वै प्रजापतिः ततो ह वै तद्रेतः तस्मादिमाः प्रजाः प्रजायन्त इति ॥१४॥

तद्ये ह वै तत्प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते । तेषामेवैष ब्रह्मलोको येषां
तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम् ॥१५॥

तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति ॥१६॥

इति प्रथमप्रश्नः

अथ द्वितीयः प्रश्नः

अथ हैनं भार्गवो वैदर्भिः पप्रच्छ भगवन्कत्येव देवाः प्रजां विधारयन्ते
कतर एतत्प्रकाशयन्ते कः पुनरेषां वरिष्ठ इति ॥१॥

तस्मै स होवाच । आकाशो ह वा एष देवो वायुरग्निरापः पृथिवी,
वाङ्मनश्चक्षुः श्रोत्रं च । ते प्रकाश्य अभिवदन्ति
वयमेतद्बाणमवष्टभ्य विधारयामः ॥२॥

तान्वरिष्ठः प्राण उवाच मा मोहमापद्यथ अहमेवैतत् पञ्चधा आत्मानं प्रविभज्य
एतद्बाणमवष्टभ्य विधारयामीति तेऽश्रद्दधाना बभूवुः ॥३॥

सोऽभिमानादूर्ध्वमुत्क्रामत इव तस्मिन्नुत्क्रामति
अथ इतरे सर्व एव उत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रातिष्ठन्ते ।
तद्यथा मक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एव उत्क्रामन्ते
तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रातिष्ठन्त
एवं वाङ्मनश्चक्षुः श्रोत्रं च ते प्रीताः प्राणं स्तुन्वन्ति ॥४॥

एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष वायुः ।
एष पृथिवी रयिर्देवः सदसच्चामृतं च यत् ॥५॥

अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् ।
ऋचो यजूꣳषि सामानि यज्ञः क्षत्त्रं ब्रह्म च ॥६॥

प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे ।
तुभ्यं प्राण प्रजास्त्विमा बलिं हरन्ति यः प्राणैः प्रतितिष्ठसि ॥७॥

देवानामसि वह्नितमः पितॄणां प्रथमा स्वधा ।
ऋषीणां चरितं सत्यमथर्वाङ्गिरसामसि ॥८॥

इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता ।
त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥९॥

यदा त्वमभिवर्षसि अथेमाः प्राण ते प्रजाः ।
आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ॥१०॥

व्रात्यस्त्वं प्राणैकर्षिः अत्ता विश्वस्य सत्पतिः ।
वयमाद्यस्य दातारः पिता त्वं मातरिश्व नः ॥११॥

या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि ।
या च मनसि सन्तता शिवां तां कुरु मोत्क्रमीः ॥१२॥

प्राणस्येदं वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम् ।
मातेव पुत्रान्रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥१३॥

इति द्वितीयप्रश्नः

अथ तृतीयः प्रश्नः

अथ हैनं कौसल्यश्चाश्वलायनः पप्रच्छ भगवन् कुत एष प्राणो जायते
कथमायात्यस्मिञ्छरीर आत्मानं वा प्रविभज्य कथं प्रातिष्ठते
केनोत्क्रमते कथं बाह्यमभिधत्ते कथमध्यात्ममिति ॥१॥

तस्मै स होवाच अतिप्रश्नान्पृच्छसि ब्रह्मिष्ठोऽसीति तस्मात्तेऽहं ब्रवीमि ॥२॥

आत्मन एष प्राणो जायते । यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततं मनोकृतेनायात्यस्मिञ्छरीरे ॥३॥

यथा सम्राडेव अधिकृतान्विनियुङ्क्ते एतान्ग्रामानेतान्ग्रामानधितिष्ठस्वेति
एवमेवैष प्राणः इतरान्प्राणान् पृथक्पृथगेव संनिधत्ते ॥४॥

पायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रातिष्ठते मध्ये तु समानः ।
एष हि एतद्धुतमन्नं समं नयति तस्मादेताः सप्तार्चिषो भवन्ति ॥५॥

हृदि ह्येष आत्मा । अत्रैतदेकशतं नाडीनां तासां शतं शतमेकैकस्या
द्वासप्ततिर्द्वासप्ततिः प्रतिशाखानाडीसहस्राणि भवन्ति आसु व्यानश्चरति ॥६॥

अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन पापम्
उभाभ्यामेव मनुष्यलोकम् ॥७॥

आदित्यो ह वै बाह्यः प्राणः उदयत्येष हि एनं चाक्षुषं प्राणमनुगृह्णानः ।
पृथिव्यां या देवता सैषा पुरुषस्य अपानमवष्टभ्य अन्तरा यदाकाशः स समानो वायुर्व्यानः ॥८॥

तेजो ह वाव उदानः तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः ॥९॥

यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः ।
सहात्मना यथासङ्कल्पितं लोकं नयति ॥१०॥

उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा ।
अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते
विज्ञायामृतमश्नुत इति ॥१२॥

इति तृतीयप्रश्नः

अथ चतुर्थः प्रश्नः

अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ भगवन्नेतस्मिन्पुरुषे कानि स्वपन्ति
कान्यस्मिञ्जाग्रति कतर एष देवः स्वप्नान्पश्यति कस्यैतत्सुखं भवति
कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्तीति ॥१॥

तस्मै स होवाच यथा गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः
सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति ताः पुनः पुनरुदयतः प्रचरन्ति
एवं ह वै तत्सर्वं परे देवे मनस्येकीभवति । तेन तर्ह्येष पुरुषो न शृणोति
न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते
नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते ॥२॥

प्राणाग्नय एवैतस्मिन्पुरे जाग्रति । गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचनो
यद्गार्हपत्यात्प्रणीयते प्रणयनादाहवनीयः प्राणः ॥३॥

यदुच्छ्वासनिःश्वासावेतावाहुती समं नयतीति स समानः ।
मनो ह वाव यजमान इष्टफलमेवोदानः
स एनं यजमानमहरहर्ब्रह्म गमयति ॥४॥

अत्रैष देवः स्वप्ने महिमानमनुभवति । यद्दृष्टं दृष्टमनुपश्यति
श्रुतं श्रुतमेवार्थमनुशृणोति देशदिगन्तरैश्च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति
दृष्टं चादृष्टं च श्रुतं चाश्रुतं च अनुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति

स यदा तेजसाभिभूतो भवति । अत्रैष देवः स्वप्नान्न पश्यत्यथैतदस्मिञ्शरीरे एतत्सुखं भवति ॥६॥

स यथा सोम्य वयांसि वासोवृक्षं सम्प्रतिष्ठन्त
एवं ह वै तत्सर्वं पर आत्मनि सम्प्रतिष्ठते ॥७॥

पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा च
वायुश्च वायुमात्रा च आकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्यं च
श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसश्च रसयितव्यं च
त्वक्च स्पर्शयितव्यं च वाक्च वक्तव्यं च हस्तौ चादातव्यं च
उपस्थश्चानन्दयितव्यं च पायुश्च विसर्जयितव्यं च
पादौ च गन्तव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं च
अहङ्कारश्चाहङ्कर्तव्यं च चित्तं च चेतयितव्यं च
तेजश्च विद्योतयितव्यं च प्राणश्च विधारयितव्यं च ॥८॥

एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः ।
स परेऽक्षर आत्मनि सम्प्रतिष्ठते ॥९॥

परमेवाक्षरं प्रतिपद्यते स यो ह वै तदच्छायम्
अशरीरम् अलोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य ।
स सर्वज्ञः सर्वो भवति तदेष श्लोकः ॥१०॥

विज्ञानात्मा सह देवैश्च सर्वैः
प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र ।
तदक्षरं वेदयते यस्तु सोम्य
स सर्वज्ञः सर्वमेवाविवेशेति ॥११॥

इति चतुर्थः प्रश्नः

अथ पञ्चमः प्रश्नः

अथ हैनं शैब्यः सत्यकामः पप्रच्छ ।
स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत
कतमं वाव स तेन लोकं जयतीति ॥१॥

तस्मै स होवाच । एतद्वै सत्यकाम
परं चापरं च ब्रह्म यदोङ्कारः ।
तस्माद्विद्वान् एतेनैवायतनेन एकतरमन्वेति ॥२॥

स यद्येकमात्रमभिध्यायीत
स तेनैव संवेदितस्तूर्णमेव
जगत्यामभिसम्पद्यते । तमृचो मनुष्यलोकमुपनयन्ते
स तत्र तपसा ब्रह्मचर्येण
श्रद्धया सम्पन्नो महिमानमनुभवति ॥३॥

अथ यदि द्विमात्रेण मनसि सम्पद्यते
सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकम् ।
स सोमलोके विभूतिमनुभूय पुनरावर्तते ॥४॥

यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण
परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नः ।
यथा पादोदरस्त्वचा विनिर्मुच्यत
एवं ह वै स पाप्मना विनिर्मुक्तः
स सामभिरुन्नीयते ब्रह्मलोकं
स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते ।
तदेतौ श्लोकौ भवतः ॥५॥

तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता
अन्योन्यसक्ता अनविप्रयुक्ताः ।
क्रियासु बाह्याभ्यन्तरमध्यमासु
सम्यक्प्रयुक्तासु न कम्पते ज्ञः ॥६॥

ऋग्भिरेतं यजुर्भिरन्तरिक्षं
सामभिर्यत्तत्कवयो वेदयन्ते ।
तमोङ्कारेणैवायतनेनान्वेति विद्वान्
यत्तच्छान्तमजरममृतमभयं परं चेति ॥ ७ ॥

इति पञ्चमः प्रश्नः

अथ षष्ठः प्रश्नः

अथ हैनं सुकेशा भारद्वाजः पप्रच्छ ।
भगवन्हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्य
एतं प्रश्नमपृच्छत षोडशकलं भारद्वाज पुरुषं वेत्थ ।
तमहं कुमारमब्रवं नाहमिमं वेद
यद्यहमिममवेदिषं कथं ते नावक्ष्यमिति,
समूलो वा एष परिशुष्यति योऽनृतमभिवदति
तस्मान्नार्हाम्यनृतं वक्तुम् । स तूष्णीं रथमारुह्य प्रवव्राज ।
तं त्वा पृच्छामि क्वासौ पुरुष इति ॥१॥

तस्मै स होवाच इहैवान्तःशरीरे सोम्य
स पुरुषो यस्मिन्नेताः षोडश कलाः प्रभवन्तीति ॥२॥

स ईक्षाञ्चक्रे कस्मिन्नहमुत्क्रान्त
उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते
प्रतिष्ठास्यामीति ॥३॥

स प्राणमसृजत प्राणाच्छ्रद्धा खं वायुर्ज्योतिरापः पृथिवी
इन्द्रियं मनः । अन्नम् अन्नाद्वीर्यं तपो मन्त्राः कर्म लोकाः
लोकेषु च नाम च ॥ ४॥

स यथा इमा नद्यः स्यन्दमानाः समुद्रायणाः
समुद्रं प्राप्यास्तं गच्छन्ति भिद्येते तासां नामरूपे
समुद्र इत्येवं प्रोच्यते । एवमेवास्य परिद्रष्टुः
इमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्य अस्तं गच्छन्ति
भिद्येते चासां नामरूपे पुरुष
इत्येवं प्रोच्यते स एषोऽकलोऽमृतो भवति
तदेष श्लोकः ॥५॥

अरा इव रथनाभौ कला यस्मिन्प्रतिष्ठिताः ।
तं वेद्यं पुरुषं वेद यथा मा वो मृत्युः परिव्यथा इति ॥६॥

तान्होवाच एतावदेव अहमेतत्परं ब्रह्म वेद
नातः परमस्तीति ॥ ७ ॥
ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः
परं पारं तारयसीति । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥८॥

इति षष्ठः प्रश्नः

इति अथर्ववेदीया प्रश्नोपनिषत्

ओं भद्रं कर्णेभिः श्रुणुयामदेवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाम्सस्तनूभिर्व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो
अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
ओं शान्तिः शान्तिः शान्तिः

© 2023 KKP APP. All rights reserved | Design by SMDS