भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया प्रश्नोपनिषद्

हृदि ह्येष आत्मा । अत्रैतदेकशतं नाडीनां तासां शतं शतम् एकैकस्याः द्वासप्ततिर्द्वासप्ततिः प्रतिशाखानाडीसहस्राणि भवन्ति
आसु व्यानश्चरति ॥६॥

हृदि ह्येषः पुण्डरीकाकार-मांसपिण्डपरिच्छिन्ने हृदयाकाशे एषः आत्मा आत्मसंयुक्तो लिङ्गात्मा, जीवात्मा इत्यर्थः ; अत्र अस्मिन्हृदये एतत् एकशतम् एकोत्तरशतं सङ्ख्यया प्रधाननाडीनां भवति । तासां शतं शतम् एकैकस्याः प्रधाननाड्या भेदाः ; पुनरपि द्वासप्ततिर्द्वासप्ततिः द्वे द्वे सहस्रे अधिके सप्ततिश्च सहस्राणि, सहस्राणां द्वासप्ततिः, प्रतिशाखानाडीसहस्राणि प्रतिप्रतिनाडीशतं सङ्ख्यया प्रधाननाडीनां सहस्राणि भवन्ति । आसु नाडीषु व्यानो वायुश्चरति । व्यानो व्यापनात् । आदित्यादिव रश्मयो हृदयात् सर्वतोगामिनीभिः नाडीभिः सर्वदेहं संव्याप्य व्यानो वर्तते । सन्धि-स्कन्ध-मर्मदेशेषु विशेषेण प्राणापानवृत्त्योश्च मध्ये उद्भूतवृत्तिर्वीर्यवत् कर्मकर्ता भवति ॥६॥

© 2023 KKP APP. All rights reserved | Design by SMDS