भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया प्रश्नोपनिषद्

एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष वायुः ।
एष पृथिवी रयिर्देवः सदसच्चामृतं च यत् ॥५॥

कथम् ? एषः प्राणः अग्निः सन् तपति ज्वलति । तथा एषः सूर्यः सन् प्रकाशते । तथा एषः पर्जन्यः सन् वर्षति । किञ्च मघवान् इन्द्रः सन् प्रजाः पालयति जिघांसति असुररक्षांसि । किञ्च, एषः वायुः आवह-प्रवहादिभेदः । किञ्च, एषः पृथिवी रयिः देवः सर्वस्य जगतः सत् मूर्तम् असत् अमूर्तं च अमृतं च यत् देवानां स्थितिकारणम् ॥५॥

© 2023 KKP APP. All rights reserved | Design by SMDS