अथर्ववेदीया प्रश्नोपनिषद्
आत्मन एष प्राणो जायते । यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततं मनोकृतेनायात्यस्मिञ्छरीरे ॥३॥
आत्मनः परस्मात्पुरुषात् अक्षरात् सत्यात् एषः उक्तः प्राणः जायते । कथम् इत्यत्र दृष्टान्तः । यथा लोके एषा पुरुषे शिरःपाण्यादिलक्षणे निमित्ते च्छाया नैमित्तिकी जायते, तद्वत् एतस्मिन् ब्रह्मणि एतत्प्राणाख्यं छायास्थानीयम् अनृतरूपं तत्त्वं सत्ये पुरुषे आततं समर्पितमित्येतत् । छाया इव देहे मनोकृतेन मनःकृतेन मनःसङ्कल्प-इच्छादिनिष्पन्न-कर्मनिमित्तेन इत्येतत् । वक्ष्यति हि पुण्येन पुण्यमित्यादि । ‘तदेव सक्तः सह कर्मणैति’ (बृ. उ. ४ । ४ । ६) इति श्रुत्यन्तरात् । आयाति आगच्छति अस्मिञ्शरीरे ॥३॥
© 2023 KKP APP. All rights reserved | Design by SMDS