अथर्ववेदीया प्रश्नोपनिषद्
अथ उत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्यया
आत्मानमन्विष्य आदित्यमभिजयन्ते ।
एतद्वै प्राणानामायतनम् एतदमृतमभयम् एतत्परायणम्
एतस्मान्न पुनरावर्तन्त इत्येष निरोधः । तदेष श्लोकः ॥१०॥
अथ उत्तरेण अयनेन प्रजापतेरंशं प्राणम् अत्तारम् आदित्यम् अभिजयन्ते । केन ? तपसा इन्द्रियजयेन । विशेषतो ब्रह्मचर्येण श्रद्धया विद्यया च प्रजापत्यात्मविषयया आत्मानं प्राणं सूर्यं जगतः तस्थुषश्च अन्विष्य अहमस्मीति विदित्वा आदित्यम् अभिजयन्ते अभिप्राप्नुवन्ति । एतद्वै आयतनं सर्वप्राणानां सामान्यमायतनम् आश्रयः एतत् अमृतम् अविनाशि अभयम् अत एव भयवर्जितम् न चन्द्रवत् क्षयवृद्धिभयवत् ; एतत् परायणं परा गतिः विद्यावतां कर्मिणां च ज्ञानवताम् एतस्मान्न पुनरावर्तन्ते यथा इतरे केवलकर्मिण इति यस्मात् एषः अविदुषां निरोधः, आदित्याद्धि निरुद्धा अविद्वांसः । नैते संवत्सरम् आदित्यमात्मानं प्राणम् अभिप्राप्नुवन्ति । स हि संवत्सरः कालात्मा अविदुषां निरोधः । तत् तत्र अस्मिन्नर्थे एषः श्लोकः मन्त्रः ॥१०॥
© 2023 KKP APP. All rights reserved | Design by SMDS