अथर्ववेदीया प्रश्नोपनिषद्
अथ चतुर्थः प्रश्नः
अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ भगवन् एतस्मिन् पुरुषे कानि स्वपन्ति कान्यस्मिञ्जाग्रति कतर एष देवः स्वप्नान् पश्यति
कस्यैतत्सुखं भवति कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्तीति ॥१॥
अथ ह एनं सौर्यायणी गार्ग्यः पप्रच्छ प्रश्नत्रयेण अपरविद्यागोचरं सर्वं परिसमाप्य संसारं व्याकृतविषयं साध्यसाधनलक्षणम् अनित्यम् । अथेदानीं साध्यसाधनविलक्षणम् अप्राणम् अमनः अगोचरम् अतीन्द्रियम् अविषयं शिवं शान्तम् अविकृतम् अक्षरं सत्यं परविद्यागम्यं पुरुषाख्यं सबाह्याभ्यन्तरम् अजं वक्तव्यमिति उत्तरं प्रश्नत्रयमारभ्यते ॥।
तत्र सुदीप्तादिव अग्नेः यस्मात् परस्मादक्षरात् सर्वे भावाः विस्फुलिङ्गा इव जायन्ते तत्र चैव अपियन्ति इत्युक्तं द्वितीये मुण्डके ; के ते सर्वे भावा अक्षरात् विस्फुलिङ्गा इव विभज्यन्ते । कथं वा विभक्ताः सन्तः तत्रैव अपियन्ति । किंलक्षणं वा तदक्षरमिति । एतद्विवक्षया अधुना प्रश्नान् उद्भावयति —
भगवन् , एतस्मिन् पुरुषे शिरःपाण्यादिमति कानि करणानि स्वपन्ति स्वापं कुर्वन्ति स्वव्यापारादुपरमन्ते ; कानि च अस्मिन् जाग्रति जागरणम् अनिद्रावस्थां स्वव्यापारं कुर्वन्ति । कतरः कार्यकरणलक्षणयोः एष देवः स्वप्नान् पश्यति । स्वप्नो नाम जाग्रद्दर्शनाद् निवृत्तस्य जाग्रद्वत् अन्तःशरीरे यद्दर्शनम् । तत्किं कार्यलक्षणेन देवेन निर्वर्त्यते, किं वा करणलक्षणेन केनचित् इत्यभिप्रायः । उपरते च जाग्रत्स्वप्नव्यापारे यत्प्रसन्नं निरायासलक्षणम् अनाबाधं सुखं कस्य एतत् भवति । तस्मिन्काले जाग्रत्स्वप्नव्यापारादुपरताः सन्तः कस्मिन्नु सर्वे सम्यगेकीभूताः सम्प्रतिष्ठिताः । मधुनि रसवत् समुद्रप्रविष्टनद्यादिवच्च विवेकानर्हाः प्रतिष्ठिता भवन्ति सङ्गताः सम्प्रतिष्ठिता भवन्तीत्यर्थः ॥
ननु न्यस्तदात्रादिकरणवत् स्वव्यापारादुपरतानि पृथक्पृथगेव स्वात्मन्यवतिष्ठन्त इत्येतद्युक्तम् ; कुतः प्राप्तिः सुषुप्तपुरुषाणां करणानां कस्मिंश्चित् एकीभावगमनाशङ्कायाः प्रष्टुः ? युक्ता एव तु आशङ्का ; यतः संहतानि करणानि स्वाम्यर्थानि परतन्त्राणि च जाग्रद्विषये ; तस्मात् स्वापेऽपि संहतानां पारतन्त्र्येणैव कस्मिंश्चित् सङ्गतिर्न्याय्या इति ; तस्मात् आशङ्कानुरूप एव प्रश्नोऽयम् । अत्र तु कार्यकरणसङ्घातो यस्मिंश्च प्रलीनः सुषुप्तप्रलयकालयोः, तद्विशेषं बुभुत्सोः स को नु स्यादिति कस्मिन्सर्वे सम्प्रतिष्ठिता भवन्तीति ॥१॥
© 2023 KKP APP. All rights reserved | Design by SMDS