भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया प्रश्नोपनिषद्

अथ तृतीयः प्रश्नः

अथ हैनं कौसल्यश्चाश्वलायनः पप्रच्छ भगवन् कुत एष प्राणो जायते कथमायात्यस्मिञ्छरीर आत्मानं वा प्रविभज्य कथं प्रातिष्ठते
केनोत्क्रमते कथं बाह्यमभिधत्ते कथमध्यात्ममिति ॥१॥

अथ हैनं कौसल्यश्च आश्वलायनः प्रपच्छ । प्राणैर्हि एवं निर्धारिततत्त्वः उपलब्धमहिमापि संहतत्वात् स्यादस्य कार्यत्वम् ; अतः पृच्छामि । हे भगवन् , कुतः कस्मात्कारणात् एषः यथा अवधृतः प्राणः जायते । जातश्च कथं केन वृत्तिविशेषेण आयाति अस्मिन् शरीरे ; किंनिमित्तकम् अस्य शरीरग्रहणम् इत्यर्थः । प्रविष्टश्च शरीरे आत्मानं वा प्रविभज्य प्रविभागं कृत्वा कथं केन प्रकारेण प्रातिष्ठते प्रतितिष्ठति । केन वा वृत्तिविशेषेण अस्माच्छरीरात् उत्क्रमते उत्क्रामति । कथं बाह्यम् अधिभूतम् अधिदैवतं च अभिधत्ते धारयति ; कथमध्यात्ममिति, धारयतीति शेषः ॥१॥

© 2023 KKP APP. All rights reserved | Design by SMDS