अथर्ववेदीया प्रश्नोपनिषद्
अथ द्वितीयः प्रश्नः
प्राणोऽत्ता प्रजापतिरित्युक्तम् । तस्य प्रजापतित्वमत्तृत्वं च अस्मिञ्शरीरे अवधारयितव्यमिति अयं प्रश्न आरभ्यते-
अथ हैनं भार्गवो वैदर्भिः पप्रच्छ भगवन् कत्येव देवाः प्रजां विधारयन्ते
कतर एतत्प्रकाशयन्ते कः पुनरेषां वरिष्ठ इति ॥१॥
अथ अनन्तरं ह किल एनं भार्गवः वैदर्भिः पप्रच्छ — हे भगवन् कत्येव देवाः प्रजां शरीरलक्षणां विधारयन्ते विशेषेण धारयन्ते । कतरे बुद्धीन्द्रिय-कर्मेन्द्रियविभक्तानाम् एतत् प्रकाशनं स्वमाहात्म्यप्रख्यापनं प्रकाशयन्ते । कोऽसौ पुनः एषां वरिष्ठः प्रधानः कार्यकरणलक्षणानामिति ॥१॥
© 2023 KKP APP. All rights reserved | Design by SMDS