अथर्ववेदीया प्रश्नोपनिषद्
अथ षष्ठः प्रश्नः
अथ ह एनं सुकेशा भारद्वाजः पप्रच्छ समस्तं जगत्कार्यकारणलक्षणं सह विज्ञानात्मना परस्मिन्नक्षरे सुषुप्तिकाले सम्प्रतिष्ठत इत्युक्तम् । तत्सामर्थ्यात् प्रलयेऽपि तस्मिन्नेव अक्षरे सम्प्रतिष्ठते जगत् तत एव उत्पद्यत इति च सिद्धं भवति । न हि अकारणे कार्यस्य सम्प्रतिष्ठानम् उपपद्यते । उक्तं च ‘आत्मन एष प्राणो जायते’ (प्र. उ. ३ । ३) इति । जगतश्च यन्मूलं तत्परिज्ञानात् परं श्रेय इति सर्वोपनिषदां निश्चितोऽर्थः । अनन्तरं चोक्तम् ‘स सर्वज्ञः सर्वो भवति’ (प्र. उ. ४ । १०) इति । वक्तव्यं च क्व तर्हि तदक्षरं सत्यं पुरुषाख्यं विज्ञेयमिति ; तदर्थोऽयं प्रश्न आरभ्यते । वृत्तान्वाख्यानं च विज्ञानस्य दुर्लभत्वज्ञापनेन तल्लब्ध्यर्थं मुमुक्षूणां यत्नविशेषोत्पादानार्थम् ॥
अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन् हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्य एतं प्रश्नमपृच्छत षोडशकलं भारद्वाज पुरुषं वेत्थ । तमहं कुमारमब्रवं नाहमिमं वेद यद्यहमिममवेदिषं कथं ते नावक्ष्यमिति, समूलो वा एष परिशुष्यति योऽनृतमभिवदति तस्मान्नार्हाम्यनृतं वक्तुम् । स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि क्वासौ पुरुष इति ॥१॥
हे भगवन् , हिरण्यनाभः नामतः कोसलायां भवः कौसल्यः राजपुत्रः जातितः क्षत्रियः माम् उपेत्य उपगम्य एतम् उच्यमानं प्रश्नम् अपृच्छत । षोडशकलं षोडशसङ्ख्याकाः कलाः अवयवा इव आत्मनि अविद्याध्यारोपितरूपा यस्मिन्पुरुषे, सोऽयं षोडशकलः ; तं षोडशकलं हे भारद्वाज, पुरुषं वेत्थ त्वं विजानासि । तम् अहं राजपुत्रं कुमारं पृष्टवन्तम् अब्रवम् उक्तवानस्मि — नाहमिमं वेद यं त्वं पृच्छसीति । एवमुक्तवत्यपि मयि अज्ञानम् असम्भावयन्तं तम् अज्ञाने कारणमवादिषम् — यदि कथञ्चित् अहम् इमं त्वया पृष्टं पुरुषम् अवेदिषं विदितवानस्मि, कथम् अत्यन्तशिष्यगुणवते अर्थिने ते तुभ्यं न अवक्ष्यं नोक्तवानस्मि न ब्रूयाम् इत्यर्थः । भूयोऽपि अप्रत्ययमेव आलक्ष्य प्रत्याययितुम् अब्रवम् — समूलः सह मूलेन वै एषः अन्यथा सन्तम् आत्मानम् अन्यथा कुर्वन् यः अनृतम् अयथाभूतार्थम् अभिवदति, स परिशुष्यति शोषमुपैति इहलोकपरलोकाभ्यां विच्छिद्यते विनश्यति । यत एवं जाने तस्मात् न अर्हामि अहम् अनृतं वक्तुं मूढवत् । स राजपुत्रः एवं प्रत्यायितः तूष्णीं व्रीडितः रथम् आरुह्य प्रवव्राज प्रगतवान् यथागतमेव । अतो न्यायत उपसन्नाय योग्याय जानता विद्या वक्तव्या एव ; अनृतं च न वक्तव्यं सर्वास्वपि अवस्थासु इत्येतत्सिद्धं भवति । तं पुरुषं त्वा त्वां पृच्छामि मम हृदि विज्ञेयत्वेन शल्यमिव स्थितम् , क्व असौ वर्तते विज्ञेयः पुरुष इति ॥१॥
© 2023 KKP APP. All rights reserved | Design by SMDS