भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया प्रश्नोपनिषद्

अथ आदित्य उदयन् यत्प्राचीं दिशं प्रविशति तेन प्राच्यान्प्राणान् रश्मिषु संनिधत्ते । यद्दक्षिणां यत्प्रतीचीं यदुदीचीं यदधो यदूर्ध्वं यदन्तरा दिशो यत्सर्वं, प्रकाशयति तेन, सर्वान्प्राणान् रश्मिषु संनिधत्ते ॥६॥

तथा अमूर्तोऽपि प्राणः अत्ता सर्वमेव यच्च आद्यम् । कथम् ? अथ आदित्यः उदयन् उद्गच्छन् प्राणिनां चक्षुर्गोचरमागच्छन् यत्प्राचीं दिशं स्वप्रकाशेन प्रविशति व्याप्नोति, तेन स्वात्मव्याप्त्या सर्वान्तःस्थान् प्राणान् प्राच्यान् अन्नभूतान् रश्मिषु स्वात्मावभासरूपेषु व्याप्तिमत्सु व्याप्तत्वात्प्राणिनः संनिधत्ते संनिवेशयति आत्मभूतान्करोतीत्यर्थः । तथैव यत्प्रविशति दक्षिणां यत्प्रतीचीं यदुदीचीम् अधः ऊर्ध्वं यत्प्रविशति यच्च अन्तरा दिशः कोणदिशोऽवान्तरदिशः यच्चान्यत् सर्वं प्रकाशयति, तेन स्वप्रकाशव्याप्त्या सर्वान् सर्वदिक्स्थान् प्राणान् रश्मिषु संनिधत्ते ॥६॥

© 2023 KKP APP. All rights reserved | Design by SMDS