अथर्ववेदीया प्रश्नोपनिषद्
य एवं विद्वान् गुरुणा प्रदर्शितकलाप्रलयमार्गः, स एषः विद्यया प्रविलापितासु अविद्याकामकर्मजनितासु प्राणादिकलासु अकलः अविद्याकृतकलानिमित्तो हि मृत्युः ; तदपगमे अकलत्वादेव अमृतः भवति । तदेतस्मिन्नर्थे एषः श्लोकः ॥
अरा इव रथनाभौ कला यस्मिन्प्रतिष्ठिताः ।
तं वेद्यं पुरुषं वेद यथा मा वो मृत्युः परिव्यथा इति ॥६॥
अरा इव रथचक्रपरिवारा इव रथनाभौ रथचक्रस्य नाभौ यथाप्रवेशिताः तदाश्रया भवन्ति यथा, तथा इत्यर्थः । कलाः प्राणाद्याः यस्मिन् पुरुषे प्रतिष्ठिताः उत्पत्तिस्थितिलयकालेषु, तं पुरुषं कलानामात्मभूतं वेद्यं वेदनीयं पूर्णत्वात् पुरुषं पुरि शयनाद्वा वेद जानाति ; यथा हे शिष्याः, मा वाः युष्मान् मृत्युः परिव्यथाः मा परिव्यथयतु । न चेद्विज्ञायेत पुरुषो मृत्युनिमित्तां व्यथामापन्ना दुःखिन एव यूयं स्थ । अतः तन्माभूत् युष्माकम् इत्यभिप्रायः ॥६॥
© 2023 KKP APP. All rights reserved | Design by SMDS