अथर्ववेदीया प्रश्नोपनिषद्
अन्नं वै प्रजापतिः ततो ह वै तद्रेतः तस्मादिमाः प्रजाः प्रजायन्त इति ॥ १४ ॥
प्रकृतं तु उच्यते सः अहोरात्रात्मकः प्रजापतिः व्रीहियवादि-अन्नात्मना व्यवस्थितः एवं क्रमेण परिणम्य । तत् अन्नं वै प्रजापतिः । कथम् ? ततः तस्मात् ह वै रेतः नृबीजं तत्प्रजाकारणं तस्मात् योषिति सिक्तात् इमाः मनुष्यादिलक्षणाः प्रजाः प्रजायन्ते यत्पृष्टं कुतो ह वै प्रजाः प्रजायन्त इति । तदेवं चन्द्रादित्यमिथुनादिक्रमेण अहोरात्रान्तेन अन्नरेतोद्वारेण इमाः प्रजाः प्रजायन्त इति निर्णीतम् ॥१४॥